Go To Mantra

यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इन्द्र यु॒धये॒ चिके॑तति । अ॒स्माभि॑ष्टे सु॒षहा॑: सन्तु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥

English Transliteration

yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati | asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṁ tān vanuyāma saṁgame ||

Pad Path

यः । नः॒ । दासः॑ । आर्यः॑ । वा॒ । पु॒रु॒ऽस्तु॒त । अदे॑वः । इ॒न्द्र॒ । यु॒धये॑ । चिके॑तति । अ॒स्माभिः॑ । ते॒ । सु॒ऽसहाः॑ । स॒न्तु॒ । शत्र॑वः । त्वया॑ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्ऽग॒मे ॥ १०.३८.३

Rigveda » Mandal:10» Sukta:38» Mantra:3 | Ashtak:7» Adhyay:8» Varga:14» Mantra:3 | Mandal:10» Anuvak:3» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (पुरुष्टुत-इन्द्र) हे बहुत प्रशंसनीय राजन् ! (यः) जो (दासः) यज्ञादिकर्मविहीन (आर्यः-अदेवः) सदाचरणसम्पन्न परन्तु नास्तिक (नः-युधये चिकेतति) हमारे प्रति युद्ध करने के लिए संकल्प करता है-सोचता है (अस्माभिः-ते शत्रवः सुसहाः सन्तु) हम सैनिकों के द्वारा वे शत्रुजन सुगमतया सहन करने योग्य अर्थात् पराजित करने योग्य हों (त्वया वयं सङ्गमे तान् वनुयाम) तेरे साथ उन्हें हम संग्राम में हिंसित करने में समर्थ हों ॥३॥
Connotation: - प्रजा को चाहिए कि अपने राजा का सदा साथ दे। जिससे वह राष्ट्र में धर्मकर्म-विहीन और सदाचारसम्पन्न परन्तु नास्तिक, विरुद्ध चिन्तन करनेवाले जनों को दण्ड देने में समर्थ हो ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (पुरुष्टुत-इन्द्र) हे बहुप्रशंसनीय राजन् ! (यः) यो हि (दासः) यज्ञादिकर्मविहीनो यद्वा (आर्यः-अदेवः) सदाचरणसम्पन्नः परन्तु न देवो यस्य तथाभूतो नास्तिकः (नः-युधये चिकेतति) अस्मान् प्रति युद्धाय युद्धकरणाय सङ्कल्पयति (अस्माभिः ते शत्रवः सुसहाः सन्तु) अस्माभिः सैनिकैः सह ते शत्रवः सुगमतया सोढुं शक्याः पराजेतुं शक्याः सन्तु-सन्ति, तथा (त्वया वयं सङ्गमे तान् वनुयाम) त्वया सह च सङ्ग्रामे “सङ्गमे संग्रामनाम” [ निघ० २।१७] तान् शत्रून् वयं हिंस्म-हन्तुं समर्था भवेम “वनुयाम वनुष्यतः” [ऋ० ८।४०।७] “वनुष्यति हन्तिकर्मा” [निरु० ५।२] ॥३॥