Go To Mantra

महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षेचक्षुषे॒ मय॑: । आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥

English Transliteration

mahi jyotir bibhrataṁ tvā vicakṣaṇa bhāsvantaṁ cakṣuṣe-cakṣuṣe mayaḥ | ārohantam bṛhataḥ pājasas pari vayaṁ jīvāḥ prati paśyema sūrya ||

Pad Path

महि॑ । ज्योतिः॑ । बिभ्र॑तम् । त्वा॒ । वि॒ऽच॒क्ष॒ण॒ । भास्व॑न्तम् । चक्षु॑षेऽचक्षुषे । मयः॑ । आ॒ऽरोह॑न्तम् । बृ॒ह॒तः । पाज॑सः । परि॑ । व॒यम् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥ १०.३७.८

Rigveda » Mandal:10» Sukta:37» Mantra:8 | Ashtak:7» Adhyay:8» Varga:13» Mantra:2 | Mandal:10» Anuvak:3» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (सूर्य) हे ज्ञानप्रकाशक परमात्मन् ! या सूर्य ! (त्वा) तुझ (महि ज्योतिः बिभ्रतम्) महान् ज्योति धारण करते हुए को (भास्वन्तम्) प्रकाशवाले (चक्षुषे चक्षुषे मयः) प्रति नेत्रवाले प्राणिमात्र के लिए, सुखरूप-सुखप्रद को (बृहतः पाजसः-परि-आरोहन्तम्) महान् विस्तृत पालनीय संसार के ऊपर अधिष्ठित हुए को (वयं जीवाः) हम जीते हुए (प्रति पश्येम) साक्षात् करें-प्रत्यक्ष देखें ॥८॥
Connotation: - महान् ज्योति को धारण किये परमात्मा या सूर्य का आश्रय लेने से प्रत्येक नेत्रवान् प्राणी को दर्शनशक्ति और जीवनशक्ति मिलती है ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सूर्य) हे जगत्प्रकाशक परमात्मन् ! सूर्य ! वा (त्वा) त्वाम् (महि ज्योतिः-बिभ्रतम्) महज्ज्योतिर्धारयन्तम् (भास्वन्तम्) प्रकाशवन्तम् (चक्षुषे चक्षुषे मयः) प्रतिनेत्राय-प्रतिनेत्रवते जनाय यद्वा प्रतिनेत्रवते प्राणिमात्रस्य सुखरूपं सुखप्रदं त्वाम् (बृहतः पाजसः-परि आरोहन्तम्) महतो विस्तृतस्य पालनीयस्य संसारस्य “पाजः पालनात्” [निरु० ६।१२] परि-अधितिष्ठन्तम् (वयं जीवाः) वयं जीवन्तः (प्रति पश्येम) साक्षात्कुर्याम प्रत्यक्षं पश्येम वा ॥८॥