Go To Mantra

दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः । अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोम॑: सुवा॒नो अ॒द्या कृ॑णोतु नः ॥

English Transliteration

divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñ charyaṇāvataḥ | anāgāstvaṁ sūryam uṣāsam īmahe bhadraṁ somaḥ suvāno adyā kṛṇotu naḥ ||

Pad Path

दि॒वःपृ॑थि॒व्योः । अवः॑ । आ । वृ॒णी॒म॒हे॒ । मा॒तॄन् । सिन्धू॑न् । पर्व॑तान् । श॒र्य॒णाऽव॑तः । अ॒ना॒गाः॒ऽत्वम् । सूर्य॑म् । उ॒षस॑म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः॑ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥ १०.३५.२

Rigveda » Mandal:10» Sukta:35» Mantra:2 | Ashtak:7» Adhyay:8» Varga:6» Mantra:2 | Mandal:10» Anuvak:3» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (दिवः-पृथिव्योः) द्युलोक पृथिवीलोक के तथा ज्ञानदाता अन्नदाता के (अवः-आ वृणीमहे) रक्षण को हम चाहते हैं (सिन्धून्-मातॄन् शर्यणावतः पर्वतान्) ओषधि-वनस्पतियों का निर्माणकर्ता स्यन्दमान-बहते हुए जलाशयों, अन्तरिक्षवाले मेघों को तथा मनुष्यों के निर्माणकर्ता सर्वत्र भ्रमणशील उपदेष्टाओं प्रणव धनुष पर स्थित अध्यात्म पर्ववाले योगियों को  हम चाहतें हैं (सूर्यम्-उषासम् अनागास्त्वम्-ईमहे) सूर्य और सुप्रभात वेला के निर्दोष प्रकाश को चाहते तथा विद्यासूर्य विद्वान् को उस जैसी ज्ञानप्रसारिका विदुषी को अज्ञानरहितता को भी चाहते हैं (सुवानः सोमः-नः-भद्रम्-अद्य कृणोतु) सुनिष्पन्न चन्द्रमा तथा नवस्नातक भी हमारे लिये अब कल्याण सिद्ध करे ॥२॥
Connotation: - पृथिवीस्थ जलाशय और आकाश के मेघ हमारे रक्षा करनेवाले हैं, वे ओषधियाँ उत्पन्न करते हैं, सूर्य उषा-सुन्दर प्रभात वेला और चन्द्रमा उत्तम कल्याणप्रद प्रकाश देनेवाले हैं तथा माता पिता अन्नज्ञानदाता रक्षक हो सर्वत्र जानेवाले उपदेशक ज्ञानधर्म का उपदेश, विद्यासूर्य विद्वान् और विदुषी तथा नव स्नातक भी कल्याणकारी ज्ञान दें ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (दिवः-पृथिव्योः) द्यावापृथिव्योः ‘दिवः षष्ठ्याः अलुक् छान्दसः’ द्युलोकस्य पृथिवीलोकस्य च तथा ज्ञानदातुरन्नदातुश्च (अवः-आ वृणीमहे) रक्षणं वाञ्छामः (सिन्धून् मातॄन्-शर्यणावतः-पर्वतान्) ओषधिवनस्पतीनां निर्मातॄन् स्यन्दमानान् जलाशयान्, अन्तरिक्षस्थान् मेघांश्च “शर्मणावति-शर्यणोऽन्तरिक्षदेश-स्तस्यादूरभवे, अत्र ‘मध्वादिभ्यश्च’ (अष्टा०४।२।८६) इति मतुप् [ऋ०१।८४।१४ दयानन्दः] ‘आवृणीमहे’ वाञ्छामः (सूर्यम्-उषासम्-अनागास्त्वम्-ईमहे) सूर्यं सुप्रभातं च निर्दोषं वाञ्छामः (सुवानः सोमः) सुनिष्पन्नः प्रकाशमानश्चन्द्रमाश्च (नः-भद्रम्-अद्य कृणोतु) अस्मभ्यं सम्प्रति कल्याणं करोतु, यद्वा (मातॄन् सिन्धून् शर्यणावतः पर्वतान् सूर्यम् उषसम्-अनागास्त्वम्-ईमहे सुवानः-सोमः नः-भद्रम्-अद्य कृणोतु) जननिर्मातॄन् सर्वगति-शीलानुपदेष्टॄन् प्रणवधनुषि स्थितानध्यात्मपर्ववतो योगिनो वाञ्छामो विद्यासूर्यं विद्वांसं तत्सदृशीं ज्ञानप्रवर्तयित्रीं विदुषीं च वाञ्छामः पुनश्चाज्ञानदोषराहित्यं च वाञ्छामः, तथा नवस्नातकोऽपि खल्वस्मभ्यं कल्याणं साधयतु ॥२॥