Go To Mantra

त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥

English Transliteration

tripañcāśaḥ krīḻati vrāta eṣāṁ deva iva savitā satyadharmā | ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti ||

Pad Path

त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒मि॒ ॥ १०.३४.८

Rigveda » Mandal:10» Sukta:34» Mantra:8 | Ashtak:7» Adhyay:8» Varga:4» Mantra:3 | Mandal:10» Anuvak:3» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (एषां व्रातः) इन पाशों का समूह (सत्यधर्मा सविता देवः-इव) स्थिर नियमवाले सूर्यदेव के समान प्रभावकारी (त्रिपञ्चाशः क्रीडति) तीन और पाँच अर्थात् आठों दिशाओं में खेलता है-विहार करता है (उग्रस्य मन्यवे चित्-न नमन्ते) ये पाशे क्रूर के क्रोध के लिये-क्रोध के आगे नहीं झुकते हैं (राजा चित्-एभ्यः-नमः-इत् कृणोति) राजा भी इनके लिये नमस्कार करता है-इनके वश हो जाता है। ये ऐसे दुष्प्रभावकारी हैं, इनसे न खेलना चाहिए ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (एषां व्रातः) एतेषामक्षाणां समूहः (सत्यधर्मा सविता-देवः इव) स्थिरनियमवान् सूर्यो देव इव प्रभावकारी (त्रिपञ्चाशः क्रीडति) त्रयश्च पञ्च च त्रिपञ्च-अष्टसंख्याकदिशस्तासु दीर्घश्छन्दसि “अन्येषामपि दृश्यते” [अष्टा०६।३।१२५] विहरति, (उग्रस्य मन्यवे चित्-न नमन्ते) एतेऽक्षाः क्रूरस्य क्रोधाय तत्कोधाग्रे न नम्रीभवन्ति (राजा चित्-एभ्यः-नमः-इत् कृणोति) राजाऽपि खल्वेभ्योऽक्षेभ्यो नमस्कारं करोति-एषां वशीभवति तथाभूता दुष्प्रभावकारिण एते, न तैः सह क्रीडनीयं कदाचित् ॥८॥