Go To Mantra

अ॒क्षास॒ इद॑ङ्कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णव॑: । कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥

English Transliteration

akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ | kumāradeṣṇā jayataḥ punarhaṇo madhvā sampṛktāḥ kitavasya barhaṇā ||

Pad Path

अ॒क्षासः॑ । इत् । अ॒ङ्कु॒शिनः॑ । नि॒ऽतो॒दिनः॑ । नि॒ऽकृत्वा॑नः । तप॑नाः । ता॒प॒यि॒ष्णवः॑ । कु॒मा॒रऽदे॑ष्णाः । जय॑तः । पु॒नः॒ऽहनः॑ । मध्वा॑ । सम्ऽपृ॑क्ताः । कि॒त॒वस्य॑ । ब॒र्हणा॑ ॥ १०.३४.७

Rigveda » Mandal:10» Sukta:34» Mantra:7 | Ashtak:7» Adhyay:8» Varga:4» Mantra:2 | Mandal:10» Anuvak:3» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (अक्षासः-इत्) पाशे अवश्य (अङ्कुशिनः-नितोदिनः) अङ्कुशधारी पीड़ा देनेवालों के समान (निकृत्वानः) वंशच्छेदक (तपनाः-तापयिष्णवः) सन्ताप ताप स्वभाववाले (कुमारदेष्णाः) बुरी तरह मृत्यु देनेवाले (जयतः कितवस्य पुनर्हणः) जीतते हुए जुआरी के पुनः-पुनः घातक (मध्वा बर्हणा सम्पृक्ताः) मधु से युक्त विष के समान हैं ॥७॥
Connotation: - जुए के पाशे जीतते हुए के लिये पीड़ा देनेवाले, बुरी तरह मृत्यु करानेवाले, मिठाई से लिप्त विषान्न के समान हैं, इनसे सदा बचना ही चाहिए ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अक्षासः-इत्) अक्षाः खलु हि (अङ्कुशिनः-नितोदिनः) अङ्कुशवन्तः-अङ्कुशधारिण इव नितोदकाः-व्यथाकारिणः (निकृत्वानः) वंशच्छेदकाः (तपनाः-तापयिष्णवः) सन्तापकास्तापशीलाः (कुमारदेष्णाः) कुत्सितमृत्युदेयं येषां तथाभूता अतिकष्टमृत्युहेतुकाः “देष्णं दातुं योग्यम्” [ऋ०२।९।४ दयानन्दः] (जयतः कितवस्य पुनर्हणः) जयं कुर्वतः कितवस्य पुनर्घातकाः (मध्वा बर्हणा सम्पृक्ताः) परिवृद्धेन मधुना संयुक्ता विषवत् सन्ति ॥७॥