Go To Mantra

अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिन्धा॑ना अ॒ग्नेः सख्यु॑: शि॒वस्य॑ । ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥

English Transliteration

asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya | īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre ||

Pad Path

अ॒स्य । यामा॑सः । बृ॒ह॒तः । न । व॒ग्नून् । इन्धा॑नाः । अ॒ग्नेः । सख्युः॑ । शि॒वस्य॑ । ईड्य॑स्य । वृष्णः॑ । बृ॒ह॒तः । सु॒ऽआसः॑ । भामा॑सः । याम॑न् । अ॒क्तवः॑ । चि॒कि॒त्रे॒ ॥ १०.३.४

Rigveda » Mandal:10» Sukta:3» Mantra:4 | Ashtak:7» Adhyay:5» Varga:31» Mantra:4 | Mandal:10» Anuvak:1» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अस्य बृहतः-अग्नेः) इस महान् अग्नि अर्थात् सूर्य की (यामासः) गमनशील प्रकाशतरङ्गें (सख्युः-शिवस्य वृष्णः-ईड्यस्य) सर्वमित्र कल्याणकारी सुखवर्षक स्तुतिपात्र-स्तुतियोग्य परमात्मा के (वग्नून्-इन्धानाः-न) स्तुतिवचनों को प्रकाशित करते हुए से (बृहतः-स्वासः-यामन् भामासः-अक्तवः-चिकित्रे) महान् शुद्धस्वरूप परमात्मा के मार्ग में प्रदीप्त प्रकाशित प्रदीप-प्रकाशस्तम्भ जाने जाते हैं-प्रतीत होते हैं ॥४॥
Connotation: - सूर्य की प्रकाशतरङ्ग स्तुत्य उपासनीय परमात्मा के स्तवन-गुणगान करती हुई सी उपास्य परमात्मा के ज्ञान मार्ग में-उपासना मार्ग में प्रकाशस्तम्भ बन जाती हैं। इसी प्रकार विद्यासूर्य विद्वान् के ज्ञानप्रकाश परमात्मा की ओर ज्ञानप्रेरक होने चाहियें ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अस्य बृहतः-अग्नेः) अस्य खलु सूर्यस्य (यामासः) गमनशीलाः प्रकाशतरङ्गाः (सख्युः-शिवस्य वृष्णः-ईड्यस्य) सर्वमित्रस्य कल्याणकरस्य कामवर्षकस्य स्तुत्यस्य परमात्मनः (वग्नून्-इन्धानाः-न) स्तुतिवचनानि प्रकाशयन्तः-इव “वग्नु-वाङ्नाम” [निघं० १।११] प्रविभान्ति दृश्यन्ते वा (बृहतः-स्वासः-यामन् भामासः-अक्तवः-चिकित्रे) महतः शोभनमुखवतः शुभ्रस्वरूपस्य परमात्मनो मार्गे प्रकाशस्तम्भाः “भा-दीप्तौ” [अदादिः] ततो मन् प्रत्ययः, प्रकाशयन्तो दृश्यन्ते-ज्ञायन्ते ॥४॥