Go To Mantra

यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जन॑: । विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नाम् ॥

English Transliteration

yasya tyan mahitvaṁ vātāpyam ayaṁ janaḥ | vipra ā vaṁsad dhītibhiś ciketa suṣṭutīnām ||

Pad Path

यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ । विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥ १०.२६.२

Rigveda » Mandal:10» Sukta:26» Mantra:2 | Ashtak:7» Adhyay:7» Varga:13» Mantra:2 | Mandal:10» Anuvak:2» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (अयं विप्रः-जनः) सब प्राणियों में मेधावी जन (यस्य) जिस पोषण करनेवाले परमात्मा की (महित्वम्) महती कृपा से (त्यत्-वाताप्यम्) उस जीवात्मा के अन्नादि भोग को (धीतिभिः) अपने कर्मों से अपने कर्मानुसार (आवंसत्) भलीभाँति भोगता है (सुष्टुतीनां चिकेत) उत्तम स्तुतियों द्वारा परमात्मा का स्मरण करे ॥२॥
Connotation: - बुद्धिमान् मनुष्य को चाहिये कि जिस पोषण-कर्त्ता परमात्मा की कृपा से अन्नादि भोग को अपने कर्मानुसार प्राप्त करता है, सेवन करता है, उस परमात्मा को स्तुतियों द्वारा स्मरण करे ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अयं विप्रः-जनः) सर्वप्राणिषु मेधावी जनः (यस्य) यस्य पूष्णः पोषयितुः परमात्मनः (महित्वम्) महित्वेन महत्या कृपया “व्यत्ययेन तृतीयास्थाने प्रथमा” (त्यत् वाताप्यम्) तत् वातापेः इन्द्रस्य जीवात्मनो भोज्यम्-अन्नम् “इन्द्र उ वातापिः स वातमाप्त्वा शरीराण्यर्हन् प्रतिप्रैति” [कौ० २०।४] (धीतिभिः) स्वकर्मभिः “धीतिभिः कर्मभिः” [निरु० ११।१६] (आवंसत्) समन्तात् सम्भजते संसेवते भुङ्क्ते सः (सुष्टुतीनां चिकेत) शोभनस्तुतिभिः “व्यत्ययेन तृतीयास्थाने षष्ठी” तं परमात्मानं स्मरेत्-स्मरति ॥२॥