Go To Mantra

यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ । तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शव॑: ॥

English Transliteration

yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna | tat-tad id asya pauṁsyaṁ gṛṇīmasi piteva yas taviṣīṁ vāvṛdhe śavaḥ ||

Pad Path

यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । असि॑वा । ज॒घान॑ । तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥ १०.२३.५

Rigveda » Mandal:10» Sukta:23» Mantra:5 | Ashtak:7» Adhyay:7» Varga:9» Mantra:5 | Mandal:10» Anuvak:2» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (यः) जो शासक (वाचा) वज्र द्वारा (विवाचः मृध्रवाचः) विविध वाणीवाले तथा हिंसक वाणीवाले (अशिवाः) अकल्याणचिन्तक शत्रु हैं, उसके (पुरुसहस्रा) बहुत सहस्र जनों या गणों को (जघान) नष्ट करता है-मारता है (अस्य तत् तत्-इत् पौंस्यम्) इसके उस-उस विषयवाले सब पौरुष-बल की (गृणीमसि) हम प्रशंसा करते हैं (यः) जो (पिता-इव तविषीं शवः-ववृधे) पिता की भाँति हमारे बल एवं धन को बढ़ाता है ॥५॥
Connotation: - राजा अपने शासन वज्र से विविध वाणीवाले और हिंसक वाणीवाले अहितचिन्तक जनों या शत्रुओं का हनन करे तथा पिता की भाँति प्रजा के बल और धन को बढ़ाता रहे, वह प्रजा द्वारा प्रशंसा के योग्य होता है ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यः) यः खल्विन्द्रः शासकः (वाचा) वज्रेण “व्रज्र एव वाक्” [ऐ० २।२१] (विवाचः मृध्रवाचः) विरुद्धा वाग्येषां ते तथा मृध्रा हिंसिका वाग्येषां ते “मृध्रा हिंस्रा वाग्येषां ते” [ऋ० ७।६।३ दयानन्दः] अशिवाः अकल्याणचिन्तकाः शत्रवः सन्तीति तेषाम् (पुरुरू सहस्रा) पुरूणि बहूनि सहस्राणि “पुरु बहुनाम” [निघ० ३।१] आकारादेश उभयत्र छान्दसः (जघान) हन्ति (अस्य तत्-तत्-इत् पौंस्यम्) अस्य तत्तद्विषयकं सर्वं हि पौरुषम् (गृणीमसि) प्रशंसामः (यः) यः खलु (पिता-इव तविषीं शवः-ववृधे) यथा पिता तद्वदस्माकं बलम् “तविषी बलनाम” [निघ० २।९] धनम् “शवः धननाम” [निघ० २।१०] वर्धते ॥५॥