Go To Mantra

अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥

English Transliteration

avindan te atihitaṁ yad āsīd yajñasya dhāma paramaṁ guhā yat | dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ ||

Pad Path

अवि॑न्दन् । ते । अति॑ऽहितम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । भ॒रत्ऽवा॑जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥ १०.१८१.२

Rigveda » Mandal:10» Sukta:181» Mantra:2 | Ashtak:8» Adhyay:8» Varga:39» Mantra:2 | Mandal:10» Anuvak:12» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (ते) वे अग्न्यादि ऋषि (अविन्दन्) उस वेदज्ञान को प्राप्त करते हैं (अतिहितम्-आसीत्) जो गुप्त था (यज्ञस्य परमं धाम) अध्यात्मयज्ञ का परम स्थान (यत्-गुहा बृहत्) जो मन के अन्दर स्थित होता है (अग्नेः) अग्रणी विद्वान् (भरद्वाजः) जो प्रजा को धारण करता है (आचक्रे) भलीभाँति वेदवाणी को ग्रहण करता है (धातुः-द्युतानात् सवितुः-विष्णोः) अग्नि, वायु, आदित्य और अङ्गिरा के पास से ॥२॥
Connotation: - अग्नि आदि चार ऋषि इस गुप्त वेदज्ञान को ग्रहण करते हैं, जो अध्यात्मयज्ञ के स्थान मन में रखा है, जिसे प्रथम अग्नि आदि से ब्रह्मा अध्ययन करता है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ते) धात्रादयोऽग्न्यादयः-ऋषयः (अविन्दन्) वेदज्ञानं विन्दन्ति लभन्ते (अतिहितम्-आसीत्) गुप्तं यदासीत् (यज्ञस्य परमं धाम यत् गुहा बृहत्) यज्ञस्य-अध्यात्मयज्ञस्य परमं धाम मनः-गुहाहितम् “मनो वै बृहत्” [ऐ० ४।४।२८] (अग्नेः) अग्निः विभक्तिव्यत्ययः-अग्रणी विद्वान् ब्रह्मा (भरद्वाजः) यः प्रजा बिभर्ति सः “एषः उ एव…प्रजा वै वाजस्ता एष बिभर्ति तस्माद् भरद्वाजः” [ऐ० आ० २।२।३] (आचक्रे) समन्ताद्-गृहीतवान् (धातुः-द्युतानात् सवितुः-विष्णोः) एषां सकाशात् ॥२॥