Go To Mantra

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना । सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥

English Transliteration

paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā | suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma ||

Pad Path

प॒श्चा । इ॒दम् । अ॒न्यत् । अ॒भ॒व॒त् । यज॑त्रम् । अम॑र्त्यस्य । भुव॑नस्य । भू॒ना । सु॒ऽप॒र्णः । अ॒ङ्ग । स॒वि॒तुः । ग॒रुत्मा॑न् । पूर्वः॑ । जा॒तः । सः । ऊँ॒ इति॑ । अ॒स्य॒ । अनु॑ । धर्म॑ ॥ १०.१४९.३

Rigveda » Mandal:10» Sukta:149» Mantra:3 | Ashtak:8» Adhyay:8» Varga:7» Mantra:3 | Mandal:10» Anuvak:11» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (अमर्त्यस्य) मरणधर्मरहित (भुवनस्य) नित्य सत्तावाले के (भूमा) भूमा-महत्त्व से (पश्चा) पश्चादनुगामी चेतनतत्त्व (अन्यत्-अभवत्) परमात्मा से अतिरिक्त प्रसिद्ध है (यजत्रम्) जो समागमशील (अङ्ग) हे जिज्ञासो ! (सवितुः) उत्पादक परमात्मा से प्रसिद्धि को प्राप्त हुआ है, (गरुत्मान्) बोलनेवाला (सुपर्णः) शोभन कर्मवाला जीव (पूर्वः-जातः) पूर्व से प्रसिद्ध-नित्य है (सः-उ) वह ही (अस्य-अनुधर्म) परमात्मा का धर्मानुचारी गुणानुरूप चेतन ज्ञानवान् है ॥३॥
Connotation: - अमर सत्तावाले परमात्मा की महिमा उसके पश्चादनुगमन करनेवाला, उससे भिन्न चेतनतत्त्व बोलने की शक्ति रखनेवाला, उत्तम कर्म करनेवाला, पूर्व से प्रसिद्ध परमात्मा का गुणानुरूप चेतन ज्ञानवान् जीव है, जो नित्य है ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अमर्त्यस्य भुवनस्य भूना) मरणधर्मरहितस्य भवतीति भुवनः-नित्यसत्तावान् तस्य, “भू सत्तायाम्” ततः क्युन् “भूसूधूभ्रस्जिभ्यश्छन्दसि” [उणादि० २।८०] सवितुः परमात्मनो भूमना महत्त्वेन “भूना भूमना” [यजु० १७।२८ दयानन्दः] (पश्चा) पश्चादनुगामि-चेतनतत्त्वं (अन्यत्-अभवत्) सवितुः परमात्मनो-ऽतिरिक्तं प्रसिद्धं भवति (यजत्रम्) यत्सङ्गमनशीलं “यजत्रः सङ्गन्ता” [ऋ० १।१७३।२ दयानन्दः] (अङ्ग) हे जिज्ञासो ! (सवितुः) उत्पादकात् परमात्मानः (गरुत्मान् सुपर्णः) “गरुतः शब्दा विद्यन्ते यस्य सः” [यजु० १२।४ दयानन्दः] सुपर्णः-“शोभनकर्मा जीवः” [ऋ० १।१६४।२१ दयानन्दः] प्रसिद्धिं प्राप्तः (पूर्वः-जातः) पूर्वतः प्रसिद्धो नित्यः (सः-उ-अस्य-अनु धर्म) स हि खल्वस्य परमात्मनः-धर्मानुचारी-गुणानुरूपश्चेतनो ज्ञानवान् ॥३॥