Go To Mantra

तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् । तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥

English Transliteration

tama āsīt tamasā gūḻham agre praketaṁ salilaṁ sarvam ā idam | tucchyenābhv apihitaṁ yad āsīt tapasas tan mahinājāyataikam ||

Pad Path

तमः॑ । आ॒सी॒त् । तम॑सा । गू॒ळ्हम् । अग्रे॑ । अ॒प्र॒ऽके॒तम् । स॒लि॒लम् । सर्व॑म् । आः॒ । इ॒दम् । तु॒च्छ्येन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसी॑त् । तप॑सः । तत् । म॒हि॒ना । अ॒जा॒य॒त॒ । एक॑म् ॥ १०.१२९.३

Rigveda » Mandal:10» Sukta:129» Mantra:3 | Ashtak:8» Adhyay:7» Varga:17» Mantra:3 | Mandal:10» Anuvak:11» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्रे) सृष्टि से पूर्व (तमसा) अन्धकार से (गूढम्) आवृत (तमः-आसीत्) अन्धकाररूप था (इदं सर्वम्) यह सब उस समय (सलिलम्-आः) फैले जल जैसा (अप्रकेतम्) अविज्ञेय-न जानने योग्य था (तुच्छ्येन) तुच्छभाव से (यत्-अपिहितम्) आवृत ढका हुआ (आभु) आभु नाम से अव्यक्त उपादान कारण (आसीत्) था, जिससे यह सृष्टि आभूत-आविर्भूत हुई (तपसः) परमात्मा के ज्ञानमय तप से (तत्-महिना) महत्तत्त्व एकरूप एक उत्पन्न हुआ ॥३॥
Connotation: - सृष्टि से पूर्व अन्धकार से आच्छादित अन्धकारमय था, जलसमान अवयवरहित न जानने योग्य “आभु” नाम से परमात्मा के सम्मुख तुच्छरूप में एकदेशी अव्यक्त प्रकृतिरूप उपादान कारण था, जिससे सृष्टि आविर्भूत होती है, उसके ज्ञानमय तप से प्रथम महत्तत्त्व उत्पन्न हुआ ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्रे तमसा गूढम्) सृष्टेः पूर्वं यदासीत् तदन्धकारेणावृतमासीत् (तमः-आसीत्) अन्धकाररूपमासीत् (इदं सर्वं सलिलम्-आ-अप्रकेतम्) एतत् सर्वं जलमिवैकीभूतमविज्ञेयमासीत् (तुच्छ्येन यत्-अपि-हितम्) तुच्छरूपेण यदावृतं गुप्तं यत् (आभु-आसीत्) तत् ‘आभु’ नामकं सर्वत्र प्रसृतमव्यक्तमुपादानकारणमासीत् “इयं सृष्टिर्यत आबभूव” इति वचनात् सृष्टेरुपादानं (तपसः) परमात्मनो ज्ञानमयात् तपसः (तत्-महिना एकम् अजायत) तन्महत्तत्त्वरूपमेकं जातम् ॥३॥