Go To Mantra

ऊर्जो॑ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः ॥

English Transliteration

ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk | tvāṁ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṁ dadhānāḥ ||

Pad Path

ऊर्जः॑ । न॒पा॒त् । स॒ह॒सा॒ऽव॒न् । इति॑ । त्वा॒ । उ॒प॒ऽस्तु॒तस्य॑ । व॒न्द॒ते॒ । वृषा॑ । वाक् । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥ १०.११५.८

Rigveda » Mandal:10» Sukta:115» Mantra:8 | Ashtak:8» Adhyay:6» Varga:19» Mantra:3 | Mandal:10» Anuvak:10» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (ऊर्जः-नपात्) हे अध्यात्मबल के न गिरानेवाले किन्तु बढ़ानेवाले (सहसावन्) साहसी तथा साहस दिलानेवाले (इति) तुझे ऐसा मानकर (उपस्तुतस्य) उपासना करनेवाले की (वृषा वाक्) सुख वर्षानेवाली वाणी (वन्दते) तेरे गुणों का प्रकाश करती है (त्वाम्) तुझे-तेरी (स्तोषाम) स्तुति करते हैं (त्वया) तेरे साथ संयुक्त हुए (सुवीराः) अच्छे प्राणवान् होते हुए (द्राघीयः) अत्यन्त दीर्घ लम्बी (आयुः) आयु को (प्रतरं दधानाः) उत्कृष्टरूप में धारण करते हुए हम होवें ॥८॥
Connotation: - परमात्मा अध्यात्मबल को बढ़ानेवाला, साहस दिलानेवाला है, उपासक की वाणी उसके गुणों का प्रकाश करती है, उससे संयुक्त होकर अच्छे प्राणवाले होकर मनुष्य दीर्घ आयु को प्राप्त करते हैं ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ऊर्जः-नपात्) हे अध्यात्मबलस्य न पातयितः-अपि तु वर्धयितः ! (सहसावन्) सहस्विन्-बलवन् (इति) इत्येवं कृत्वा (उपस्तुतस्य वृषा वाक्-वन्दते) उपासकस्य ‘उपस्तुतः-इति कर्त्तरि क्तश्छान्दसः’ सुखवर्षयित्री वाक् खलु तव गुणान् प्रकाशयति “वन्दते गुणान् प्रकाशयति” [यजु० ३।४६ दयानन्दः] (त्वां स्तोषाम) त्वां स्तुमः “स्तुधातोर्लटि सिप्-आट् चागमः” (त्वया सुवीराः) त्वया संयुक्ताः सुष्ठु प्राणवन्तः सन्तः “प्राणा वै दशवीराः” [श० १२।८।१।२२] (द्राघीयः-आयुः प्रतरं दधानाः) अति दीर्घमायुः प्रकृष्टतरं धारयन्तो भवेम ॥८॥