Go To Mantra

मनी॑षिण॒: प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒: सन्ति॑ नृ॒णाम् । इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒: स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥

English Transliteration

manīṣiṇaḥ pra bharadhvam manīṣāṁ yathā-yathā matayaḥ santi nṛṇām | indraṁ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ ||

Pad Path

मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् । इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥ १०.१११.१

Rigveda » Mandal:10» Sukta:111» Mantra:1 | Ashtak:8» Adhyay:6» Varga:10» Mantra:1 | Mandal:10» Anuvak:9» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में परमात्मा वेद और ब्रह्माण्ड का रचयिता सर्वत्र व्यापक अज्ञाननाशक स्तुति करनेवालों को मोक्ष में प्रेरक उनके दोषों का निवारक है इत्यादि विषय हैं।

Word-Meaning: - (मनीषिणः) हे मेधावी योगी स्तोताजनों ! तुम (मनीषाम्) स्तुति को (प्र भरध्वम्) ऐश्वर्यवान् परमात्मा के लिये प्रचरित करो-समर्पित करो (नृणाम्) तुम मनुष्यों की (यथा यथा) जैसी-जैसी (मतयः) कामनाएँ (सन्ति) हैं-हों (सत्यैः कृतेभिः) हम भी सत्यकर्मों से मन वाणी शरीर के द्वारा सद्विचार सत्यभाषण सदाचरणों से (इन्द्रम्-आ-ईरयाम) परमात्मा को अपने अन्दर लावें, यतः (सः-वीरः-हि) वह कमनीय वस्तुओं का दाता ही (गिर्वणस्युः) स्तुति करनेवाले को चाहता हुआ (विदानः) जानता हुआ सदा वर्त्तमान है ॥१॥
Connotation: - मेधावी योगी स्तुति करनेवाले जनों की जो-जो कामनाएँ होती हैं, परमात्मा पूरी करता है, सद्विचारों, सत्यभाषणों व सदाचरणों से परमात्मा अपनाया हुआ मनुष्यों के हृदयों में वर्त्तमान रहता है ॥१॥
Reads times

BRAHMAMUNI

सूक्तेऽस्मिन् परमात्मा वेदस्य ब्रह्माण्डस्य च रचयिता सर्वत्र व्यापकोऽज्ञाननाशकः स्तुतिकर्तॄन् मोक्षे प्रेरयिता तेषां दोषनिवारकश्चेत्येवमादयो विषयाः सन्ति।

Word-Meaning: - (मनीषिणः) हे मेधाविनो योगिनः स्तोतारः ! “मनीषी मेधाविनाम” [निघ. ३।१५] मनीषिणः-मनसः ईषिणो योगिनः [यजु. १७।२० दयानन्दः] यूयं (मनीषां प्र भरध्वम्) स्तुतिम् “मनीषया स्तुत्या” [निरु. २।२५] ऐश्वर्यवने परमात्मने समर्पयत (नृणां यथायथा मतयः सन्ति) युष्माकं मनुष्याणां यथा यथा कामाः सन्ति पूरयिष्यतीत्याशयः (सत्यैः कृतेभिः-इन्द्रम्-आ-ईरयाम) वयमपि सत्यैः, कर्मभिः-मनसा वाचा, शरीरेण च कृतैः सद्विचारैः सत्यभाषणैः सदाचरणैः-परमात्मानं स्वान्तरे-आनयाम यतः (सः-हि वीरः-गिर्वणस्युः-विदानः) स हि परमात्मा कमनीयानां वस्तूनां दाता तथा ये गीर्भिः स्तुतिभिर्वनन्ति तान् गीर्वणसः कामयमानः ‘गी गिः, ह्रस्वत्वं छान्दसम्’ ‘सुप आत्मनः क्यच्’ पुनः ‘क्यचि च’ [अष्टा० ३।२।१७०] उः प्रत्ययः सर्वेषामपीष्टान् जानन् वर्त्तते ॥१॥