ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे । त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
ūrjaṁ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve | tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṁ vṛṇīmahe ||
ऊर्ज॑म् । गा॒वः॒ । यव॑से । पीवः॑ । अ॒त्त॒न॒ । ऋ॒तस्य॑ । याः । सद॑ने । कोशे॑ । अ॒ङ्ध्वे । त॒नूः । ए॒व । त॒न्वः॑ । अ॒स्तु॒ । भे॒ष॒जम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.१०