त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभिः॑ ॥
triś cin no adyā bhavataṁ navedasā vibhur vāṁ yāma uta rātir aśvinā | yuvor hi yantraṁ himyeva vāsaso bhyāyaṁsenyā bhavatam manīṣibhiḥ ||
त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । नवेदसा । वि॒भुः । वा॒म् । यामः॑ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ । यु॒वोः । हि । य॒न्त्रम् । हि॒म्याइ॑व । वास॑सः । अ॒भि॒आ॒यं॒सेन्या॑ । भ॒व॒त॒म् । म॒नी॒षिभिः॑॥
SWAMI DAYANAND SARSWATI
अब चौतीसवें सूक्त का आरंभ है। उसके पहिले मन्त्र में अश्वि के दृष्टान्त से कारीगरों के गुणों का उपदेश किया है।
SWAMI DAYANAND SARSWATI
(त्रिः) त्रिवारम् (चित्) एव (नः) अस्माकम् (अद्य) अस्मिन्नहनि। निपातस्य च इति दीर्घः। (भवतम्) (नवेदसा) न विद्यते वेदितव्यं ज्ञातव्यमवशिष्टं ययोस्तौ विद्वांसौ। नवेदा इति मेधाविनामसु पठितम्। निघं० ३।१५। (विभुः) सर्वमार्गव्यापनशीलः (वाम्) युवयोः (यामः) याति गच्छति येन स यामो रथः (उत) अप्यर्थे (रातिः) वेगादीनां दानम् (अश्विना) स्वप्रकाशेन व्यापिनौ सूर्य्याचन्द्रमसाविव सर्वविद्याव्यापिनौ (युवोः) युवयोः। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति ओसिच# इत्येकारादेशो न भवति (हि) यतः (यन्त्रम्) यंत्र्यते यंत्रयंति संकोचयंति विलिखन्ति चालयंति वा येन तत् (हिम्याइव) हेमंतर्तौ भवा महाशीतयुक्ता रात्रय इव। भवेश्छन्दसि*। इति यत्। हिम्येति रात्रिनामसु पठितम्। निघं० १।७। हन्तेर्हि च। उ० ३।११६। इति हन् धातोर्मक् ह्यादेशश्च (वाससः) वसन्ति यस्मिन् तद्वासो दिनं तस्य मध्ये। दिवस उपलक्षणेन रात्रिरपि ग्राह्या (अभ्यायंसेन्या) आभिमुख्यतया समंतात् यम्येते गृह्येते यौ तौ। अत्र सुपां सुलुग् इत्याकारादेशः। अभ्याङ्पूर्वाद्यमधातोर्बाहुलकादौणादिकः सेन्यः प्रत्ययः। (भवतम्) (मनीषिभिः) मेधाविभिर्विद्वद्भिः शिल्पिभिः। मनीषीति मेधाविनामसु पठितम्। निघं० ३।१५। ॥१॥ # [अ० ७।३।१०४।] *[अ० ४।४।११०।],
तत्रादिमेन मंत्रेणाश्विदृष्टान्तेन शिल्पिगुणा उपदिश्यतन्ते।
MATA SAVITA JOSHI
पूर्वसूक्ताद्वारे ही विद्या सिद्ध करणाऱ्या इन्द्र शब्दाच्या अर्थाचे प्रतिपादन केलेले आहे व या सूक्तात या विद्येचे साधक अश्वि अर्थात द्यावा पृथ्वी इत्यादी अर्थ प्रतिपादित केलेले आहेत. यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे.