स यो वृषा॒ वृष्ण्ये॑भि॒: समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट्। स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ | satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī ||
सः। यः। वृषा॑। वृष्ण्ये॑भिः॑। सम्ऽओ॑काः। म॒हः। दि॒वः। पृ॒थि॒व्याः। च॒। स॒म्ऽराट्। स॒ती॒नऽस॑त्वा। हव्यः॑। भरे॑षु। म॒रुत्वा॑न्। नः॒। भ॒व॒तु॒। इन्द्रः॑। ऊ॒ती ॥ १.१००.१
SWAMI DAYANAND SARSWATI
अब उन्नीस ऋचावाले सौवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में सूर्य्यलोक कैसा है, यह विषय कहा है ।
SWAMI DAYANAND SARSWATI
अथायं सूर्यलोकः कीदृश इत्युपदिश्यते ।
हे मनुष्या यूयं यो वृषा समोकाः सतीनसत्वा हव्यो मरुत्वान्महो दिवः पृथिव्याश्च लोकानां मध्ये सम्राडिन्द्रोऽस्ति स यथा वृष्ण्येभिर्भरेषु न ऊत्यूतये भवतु तथा प्रयतध्वम् ॥ १ ॥
MATA SAVITA JOSHI
या सूक्तात सभा इत्यादी अधिपती, ईश्वर अध्यापकांच्या गुणांच्या वर्णनाने या सूक्ताच्या अर्थाचे पूर्वसूक्तार्थाबरोबर साम्य आहे, हे समजावे.