SEARCH DEVATA

We found 1157 references of सोमः in Rigveda!

मन्द्रस्य रूपं विविदुर्मनीषिण: श्येनो यदन्धो अभरत्परावत: । तं मर्जयन्त सुवृधं नदीष्वाँ उशन्तमंशुं परियन्तमृग्मियम् ॥


त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् । अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥


अयं दिव इयर्ति विश्वमा रज: सोम: पुनानः कलशेषु सीदति । अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् ॥


त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥


पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश । पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥


आ दक्षिणा सृज्यते शुष्म्या३सदं वेति द्रुहो रक्षस: पाति जागृविः । हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वो३र्ब्रह्म निर्णिजे ॥


परि द्युक्षं सहसः पर्वतावृधं मध्व: सिञ्चन्ति हर्म्यस्य सक्षणिम् । आ यस्मिन्गाव: सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः ॥


त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः । अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥


ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्य१न्तरा दधे । विद्वान्त्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥


गोजिन्न: सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् । यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥


एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसान: श्रवसे सुमङ्गल: । प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्य: स्यन्दते वृषा ॥


तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिप: । इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ॥


आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोम: परि तान्यर्षति । कृण्वन्त्संचृतं विचृतमभिष्टय इन्दु: सिषक्त्युषसं न सूर्य: ॥


स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने । स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः ॥


दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् । अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ ॥


ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य । भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचि: ॥


राजा समुद्रं नद्यो३ वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः । अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥


द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः । स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥


त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि । त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्य: ॥


स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वा: सुभरा अहर्दिवि । ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥


मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम् । मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय ॥


नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम् । प्र वन्दितुरिन्दो तार्यायु: प्रातर्मक्षू धियावसुर्जगम्यात् ॥


प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥


ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोम: पवित्रमत्येति रेभन् ॥


प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर: सोम: पवमानो मनीषाः । अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥


स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ । अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥


शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन । कविर्गीर्भिः काव्येना कविः सन्त्सोम: पवित्रमत्येति रेभन् ॥


चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥


मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम् । वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वो३रा विवेश ॥


प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभि: कलशाँ आ विवेश । साम कृण्वन्त्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम् ॥


स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय । देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभि: सदा नः ॥


अभि प्रियाणि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् । इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥


जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् । घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥


वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम् । स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून् ॥


ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम । अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥


पवित्रेभि: पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् । द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दु: ॥


प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् । पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥


दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धारा: कर्मणा देववीतौ । एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥


स वर्धिता वर्धनः पूयमान: सोमो मीढ्वाँ अभि नो ज्योतिषावीत् । येना न: पूर्वे पितर: पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥


अक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दु: ॥


अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभि: सूरो न स्वयुग्वभिः । धारा सुतस्य रोचते पुनानो अरुषो हरि: । विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिॠक्वभिः ॥


त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । परावतो न साम तद्यत्रा रणन्ति धीतय: । त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥


पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथ: । अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥


भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥


हृदिस्पृशस्त आसते विश्वेषु सोम धामसु । अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥


उत व्रतानि सोम ते प्राहं मिनामि पाक्या । अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥


समु प्र यन्ति धीतय: सर्गासोऽवताँ इव । क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे ॥


तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे । गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे ॥


पशुं न: सोम रक्षसि पुरुत्रा विष्ठितं जगत् । समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे ॥


त्वं न: सोम विश्वतो गोपा अदाभ्यो भव । सेध राजन्नप स्रिधो वि वो मदे मा नो दु:शंस ईशता विवक्षसे ॥


त्वं न: सोम सुक्रतुर्वयोधेयाय जागृहि । क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो न: पाह्यंहसो विवक्षसे ॥


त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । यत्सीं हवन्ते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे ॥


अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥


अयं विप्राय दाशुषे वाजाँ इयर्ति गोमतः । अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे ॥