SEARCH DEVATA

We found 22 references of भाववृत्तम् in Rigveda!

तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३दुपरि स्विदासी३त् । रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥


कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् । छन्द: किमासीत्प्रउगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥


विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्न: । विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्या: ॥