SEARCH CHHANDA

We found 11 references of उष्णिग्गर्भा परात्रिष्टुप् in Atharva Veda!

सूषा व्यूर्णोतु वि योनिं हापयामसि। श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥


अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः। यक्ष्मम्पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥


शीर्षामयमुपहत्यामक्ष्योस्तन्वोरपः। कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥


मेमं प्राणो हासीन्मो अपानोवहाय परा गात्। सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥


इतो जयेतो वि जय सं जय जय स्वाहा। इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः। नीललोहितेनामूनभ्यवतनोमि ॥