Go To Mantra

यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥

Mantra Audio
Pad Path

य: । न: । मर्त: । मरुत: । दु:ऽहृणायु: । तिर: । चित्तानि । वसव: । जिघांसति । द्रुह: । पाशान् । प्रत‍ि । मुञ्चताम् । स: । तपिष्ठेन । तपसा । हन्तन । तम् ॥८२.२॥

Atharvaveda » Kand:7» Sukta:77» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

वीरों के कर्त्तव्य का उपदेश।

Word-Meaning: - (वसवः) हे वसानेवाले (मरुतः) शूरो ! (यः) जो (दुर्हृणायुः) अत्यन्त क्रोध को प्राप्त हुआ (मर्तः) मनुष्य (चित्तानि) हमारे चित्तों के (तिरः) आड़े होकर (नः) हमें (जिघांसति) मारना चाहता है। (सः) वह [हमारे लिये] (द्रुहः) द्रोह [अनिष्ट] के (पाशान्) फन्दों को (प्रति) प्रत्यक्ष (मुञ्चताम्) छोड़ देवे, (तम्) उसे (तपिष्ठेन) अत्यन्त तपानेवाले (तपसा) ऐश्वर्य वा तुपक आदि हथियार से (हन्तन) मार डालो ॥२॥
Connotation: - शूर वीर पुरुष दुष्टों का नाश करके श्रेष्ठों का पालन करें ॥२॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−७।५९।८ ॥
Footnote: २−(यः) (नः) अस्मान् (मर्तः) मनुष्यः (मरुतः) हे शूरगणाः (दुर्हृणायुः) हृणीयते क्रुध्यतिकर्मा-निघ० २।१२। हृणीङ् रोषणे लज्जायां च-क। छन्दसीणः। उ० १।२। हृण+इण् गतौ-ञुण्। दुर्हृणं दुष्टं क्रोधं गतः। प्राप्तक्रोधः (तिरः) तिरस्कृत्य। उल्लङ्घ्य (चित्तानि) अन्तःकरणानि (वसवः) हे वासयितारः (जिघांसति) हन्तुमिच्छति (द्रुहः) द्रोहस्य। अनिष्टस्य (पाशान्) बन्धान् (प्रति) प्रत्यक्षम् (मुञ्चताम्) त्यजतु (सः) शत्रुः (तपिष्ठेन) तापयितृतमेन (तपसा) ऐश्वर्येण तापकेनायुधेन वा (हन्तन) तस्य तनप्। हत ॥