Go To Mantra

प्रेतो य॑न्तु॒ व्याध्यः॒ प्रानु॒ध्याः प्रो अश॑स्तयः। अ॒ग्नी र॑क्ष॒स्विनी॑र्हन्तु॒ सोमो॑ हन्तु दुरस्य॒तीः ॥

Mantra Audio
Pad Path

प्र । इत: । यन्तु । विऽआध्य: । प्र । अनुऽध्या: । प्रो इति । अशस्तय: ।अग्नि: । रक्षस्विनी: । हन्तु । सोम: । हन्तु । दुरस्यती: ॥११९.२॥

Atharvaveda » Kand:7» Sukta:114» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राक्षसों के नाश का उपदेश।

Word-Meaning: - (इतः) यहाँ से (व्याध्यः) सब रोग (प्र) बाहिर, (अनुध्याः) सब अनुताप (प्र) बाहिर और (अशस्तयः) सब अपकीर्तियाँ (प्रो) बाहिर ही (यन्तु) चली जावें। (अग्निः) तेजस्वी राजा (रक्षस्विनी) राक्षसों से युक्त [सेनाओं] को (हन्तु) मारे और (सोमः) ऐश्वर्यवान् राजा (दुरस्यतीः) अनिष्ट चीतनेवाली [प्रजाओं] को (हन्तु) नाश करें ॥२॥
Connotation: - राजा प्रजा में शान्ति रखने के लिये चोर डाकू आदि राक्षसों का नाश करें ॥२॥
Footnote: २−(प्र) बहिर्भावे (इतः) अस्मात् स्थानात् (यन्तु) गच्छन्तु (व्याध्यः) उपसर्गे घोः किः। पा० ३।३।९२। वि+आङ्+डुधाञ्-कि। जसि, गुणस्थाने यणादेशः। व्याधयः। रोगाः (प्र) (अनुध्याः) आतश्चोपसर्गे। पा० ३।३।१०६। अनु+ध्यै चिन्तायाम्-अङ्, टाप्। अनुतापाः (प्रो) बहिरेव (अशस्तयः) अपकीर्तयः (अग्निः) तेजस्वी राजा (रक्षस्विनीः) अ० ६।२।२। राक्षसैर्युक्ताः सेनाः (हन्तु) नाशयतु (सोमः) ऐश्वर्यवान् राजा (हन्तु) (दुरस्यतीः) अ० १।२९।२। दुरस्य-शतृ, ङीप्। अनिष्टचिन्तिकाः प्रजाः ॥