Go To Mantra

यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥

Mantra Audio
Pad Path

यत् । अन्नम् । अद्मि । अनृतेन । देवा: । दास्यन् । अदास्यन् । उत । सम्ऽगृणामि । वैश्वानरस्य । महत: । महिम्ना । शिवम् । मह्यम् । मधुऽमत् । अस्तु । अन्नम् ॥७१.३॥

Atharvaveda » Kand:6» Sukta:71» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

दोषों के नाश का उपदेश।

Word-Meaning: - (देवाः) हे विद्वान् पुरुषो ! (यत्) जो कुछ (अन्नम्) अन्न (अनृतेन) असत्य व्यवहार से (अद्मि) मैं खाता हूँ, (उत) और (दास्यन्) देना चाहता हुआ [अथवा] (अदास्यन्) न देना चाहता हुआ मैं [जो कुछ] (संगृणामि=संगिरामि) खा जाता हूँ। (महतः) पूजनीय (वैश्वानरस्य) सब नरों के हितकारी परमेश्वर की (महिम्ना) महिमा से (अन्नम्) वह अन्न (मह्यम्) मेरे लिये (शिवम्) सुखकारक और (मधुमत्) मीठे रसवाला (अस्तु) होवे ॥३॥
Connotation: - मनुष्य परमेश्वर की महिमा जानकर दुष्ट कर्म छोड़ कर अपने कर्तव्य सत्यमार्ग पर चलकर आनन्द भोगें ॥३॥
Footnote: ३−(यत्) (अन्नम्) (अद्मि) भक्षयामि (अनृतेन) असत्यव्यवहारेण (देवाः) हे विद्वांसः (दास्यन्) लृटः सद्वा। पा० ३।३।१४। इति दास्यतेः−शतृ। दातुमिच्छन् (अदास्यन्) अदातुमिच्छन् (उत) अपि च (संगृणामि) गॄ निगरणे, छान्दसः श्ना। संगिरामि। भक्षयामि (वैश्वानरस्य) सर्वनरहितस्य परमेश्वरस्य (महतः) पूजनीयस्य (महिम्ना) प्रतापेन (शिवम्) सुखकरम् (मह्यम्) मदर्थम् (मधुमत्) माधुर्य्योपेतम् (अस्तु) भवतु (अन्नम्) भोजनम् ॥