Go To Mantra

क्वार्धमा॒साः क्व यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः। यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

Mantra Audio
Pad Path

क्व । अर्धऽमासा: । क्व । यन्ति । मासा: । सम्ऽवत्सरेण । सह । सम्ऽविदाना: । यत्र । यन्ति । ऋतव: । यत्र । आर्तवा: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.५॥

Atharvaveda » Kand:10» Sukta:7» Paryayah:0» Mantra:5


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म के स्वरूप के विचार का उपदेश।

Word-Meaning: - (क्व) कहाँ (अर्धमासाः) आधे महीने [पखवाड़े] और (क्व) कहाँ (मासाः) महीने (संवत्सरेण सह) वर्ष के साथ (संविदानाः) मिलते हुए (यन्ति) जाते हैं ? (यत्र) जहाँ (ऋतवः) ऋतुएँ और (आर्तवाः) ऋतुओं के अवयव (यन्ति) जाते हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥५॥
Connotation: - परमेश्वर की ही आज्ञा में यह काल अपने अवयवों सहित वर्तमान है ॥५॥
Footnote: ५−(क्व) कस्मिन् देवे (अर्धमासाः) पक्षाः (यन्ति) गच्छन्ति (मासाः) (संवत्सरेण) वर्षेण (सह) (संविदानाः) अ० २।२८।२। संगच्छमानाः (ऋतवः) वसन्तादयः कालाः (आर्तवाः) ऋतूनामवयवाः। अन्यत् पूर्ववत् ॥