यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥
अथर्ववेद में अतिथिः, विद्या के 73 संदर्भ मिले
यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥
सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥
यद्वा अतिथिपतिरतिथीन्प्रतिपश्यति देवयजनं प्रेक्षते ॥
यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥
या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥
यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥
यदावसथान्कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥
यदुपस्तृणन्ति बर्हिरेव तत् ॥
यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥
यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥
यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत् ॥
यत्पुरा परिवेषात्खादमाहरन्ति पुरोडाशावेव तौ ॥
यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥
ये व्रीहयो यवा निरुप्यन्तेंऽशव एव ते ॥
यान्युलूखलमुसलानि ग्रावाण एव ते ॥
शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥
स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥
यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३मिति ॥
यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥
उप हरति हवींष्या सादयति ॥
तेषामासन्नानामतिथिरात्मञ्जुहोति ॥
स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥
एते वै प्रियाश्चाप्रियाश्चर्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥
स य एवं विद्वान्न द्विषन्नश्नीयान्न द्विषतोऽन्नमश्नीयान्न मीमांसितस्य न मीमांसमानस्य ॥
सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥
सर्वो वा एषोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥
सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥
प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥
प्रजापतेर्वा एष विक्रमाननुविक्रमते य उपहरति ॥
योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन्पचन्ति स दक्षिणाग्निः ॥
इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥
पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥
ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥
प्रजां च वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥
कीर्तिं च वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥
श्रियं च वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥
एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात् ॥
अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय। यज्ञस्याविच्छेदाय तद्व्रतम् ॥
एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात् ॥
स य एवं विद्वान्क्षीरमुपसिच्योपहरति।
यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥
स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति।
यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥
स य एवं विद्वान्मधूपसिच्योपहरति।
यावत्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥
स य एवं विद्वान्मांसमुपसिच्योपहरति।
यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥
स य एवं विद्वानुदकमुपसिच्योपहरति।
प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वानुदकमुपसिच्योपहरति ॥
तस्मा उषा हिङ्कृणोति सविता प्र स्तौति।
बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥
तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति।
मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन्निधनम्। निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥
तस्मा अभ्रो भवन्हिङ्कृणोति स्तनयन्प्र स्तौति।
विद्योतमानः प्रति हरति वर्षन्नुद्गायत्युद्गृह्णन्निधनम्। निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥
अतिथीन्प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति।
उप हरति प्रति हरत्युच्छिष्टं निधनम्।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥
यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत् ॥
यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत् ॥
यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥
तेषां न कश्चनाहोता ॥
यद्वा अतिथिपतिरतिथीन्परिविष्य गृहानुपोदैत्यवभृथमेव तदुपावैति ॥
यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत् ॥
स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन्यत्पृथिव्यां विश्वरूपम् ॥
स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन्यदन्तरिक्षे विश्वरूपम् ॥
स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन्यद्दिवि विश्वरूपम् ॥
स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन्यद्देवेषु विश्वरूपम् ॥
स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन्यल्लोकेषु विश्वरूपम् ॥
स उपहूत उपहूतः ॥
आप्नोतीमं लोकमाप्नोत्यमुम् ॥
ज्योतिष्मतो लोकाञ्जयति य एवं वेद ॥