छन्द खोजें

ऋग्वेद में भुरिगार्चीत्रिष्टुप् के 9 संदर्भ मिले

स्वायुधः सोतृभि: पूयमानोऽभ्यर्ष गुह्यं चारु नाम । अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥


अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु । सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥


यदाशसा नि:शसाभिशसोपारिम जाग्रतो यत्स्वपन्त: । अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥