देवता: अजः पञ्चौदनः
ऋषि: भृगुः
छन्द: पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताविराड्जगती
स्वर: अज सूक्त
इ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेनै॑नं॒ सं ग॑मयति। इषं॒ मह॒ ऊर्ज॑मस्मै दुहे॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
पद पाठ
इदम्ऽइदम् । एव । अस्य । रूपम् । भवति । तेन । एनम् । सम् । गमयति । इषम् । मह: । ऊर्जम् । अस्मै । दुहे । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२४॥
अथर्ववेद » काण्ड:9» सूक्त:5» पर्यायः:0» मन्त्र:24
69 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से सुख का उपदेश।
पदार्थान्वयभाषाः - (अस्य) इस [परमेश्वर] का (रूपम्) रूप [सौन्दर्य] (इदमिदम्) इस-इस [प्रत्येक वस्तु] में (एव) ही (भवति) पहुँचता है, [तभी वह सर्वव्यापक रूप] (तेन) उस [परमात्मा] के साथ (एनम्) इस जीवात्मा को (सम् गमयति) मिला देता है। वह [पुरुष] (इषम्) अन्न, (महः) बड़ाई (ऊर्जम्) और पराक्रम (अस्मै) इसके लिये [अपने लिये] (दुहे) दोहता है (यः) जो पुरुष (पञ्चौदनम्) पाँच भूतों [पृथिवी आदि] के सींचनेवाले, (दक्षिणाज्योतिषम्) दानक्रिया की ज्योति रखनेवाले (अजम्) अजन्मे वा गतिशील परमात्मा को [अपने आत्मा में] (ददाति) समर्पित करता है ॥२४॥
भावार्थभाषाः - मनुष्य पूर्ण भक्ति से परमात्मा के नियमों पर चलकर सब प्रकार के आनन्द और पराक्रम को प्राप्त होता है ॥२४॥
टिप्पणी: २४−(इदमिदम्) प्रतिद्रव्यम् (एव) निश्चयेन (अस्य) परमात्मनः (रूपम्) सौन्दर्य्यम् (भवति) भू प्राप्तौ। प्राप्नोति (तेन) ईश्वरेण सह (एनम्) जीवात्मानम् (संगमयति) संयोजयति तद्रूपम् (इषम्) अन्नम् (महः) महत्त्वम् (ऊर्जम्) पराक्रमम् (अस्मै) समीपवर्तिने। स्वस्मै (दुहे) दुग्धे। प्रपूरयति। अग्रे गतम्-म० २२ ॥
