वांछित मन्त्र चुनें

मधु॑म॒न्मूलं॒ मधु॑म॒दग्र॑मासां॒ मधु॑म॒न्मध्यं॑ वी॒रुधां॑ बभूव। मधु॑मत्प॒र्णं मधु॑म॒त्पुष्प॑मासां॒ मधोः॒ सम्भ॑क्ता अ॒मृत॑स्य भ॒क्षो घृ॒तमन्नं॑ दुह्रतां॒ गोपु॑रोगवम् ॥

मन्त्र उच्चारण
पद पाठ

मधुऽमत् । मूलम् । मधुऽमत् । अग्रम् । आसाम् । मधुऽमत् । मध्यम् । वीरुधाम् । बभूव । मधुऽमत् । पर्णम् । मधुऽमत् । पुष्पम् । आसाम् । मधो: । सम्ऽभक्ता: । अमृतस्य । भक्ष: । घृतम् । अन्नम् । दुहताम् । गोऽपुरोगवम् ॥७.१२॥

अथर्ववेद » काण्ड:8» सूक्त:7» पर्यायः:0» मन्त्र:12


80 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

रोग के विनाश का उपदेश।

पदार्थान्वयभाषाः - (आसाम् वीरुधाम्) इन ओषधियों का (मूलम्) मूल (मधुमत्) मधुर, (अग्रम्) सिरा (मधुमत्) मधुर, (मध्यम्) मध्य (मधुमत्) मधुर, (पर्णम्) पत्र (मधुमत्) मधुर, (पुष्पम्) फूल (मधुमत्) मधुर (बभूव) हुआ था, (आसाम्) इनका (अमृतस्य) अमृत का (भक्षः) भोजन [है], (मधोः) मधुरता में (संभक्ताः) पूरी तत्पर वे [ओषधें] (गोपुरोगवम्) गौ को अग्रगामी [प्रधान] रखनेवाले (घृतम्) घी, और (अन्नम्) अन्न को (दुह्रताम्) भरपूर करें ॥१२॥
भावार्थभाषाः - मनुष्य अन्न, तृण आदि ओषधियों के भागों के गुणों से यथावत् उपकार लेकर गौ आदि जीवों की रक्षा करके घृत अन्न आदि परिपूर्ण करें ॥१२॥
टिप्पणी: १२−(मधुमत्) माधुर्योपेतम् (मूलम्) (अग्रम्) उपरिभागः (पर्णम्) पत्रम् (पुष्पम्) पुष्प विकाशे-अच्। कुसुमः (मधोः) मधुनः। माधुर्य्यस्य (संभक्ताः) भज सेवायाम्-क्त। सम्यक् तत्पराः (अमृतस्य) अमरणस्य (भक्षः) भक्ष अदने-घञ्। भोजनम् (घृतम्) आज्यम् (अन्नम्) (दुह्रताम्) अ० ७।८२।६। प्रपूरयन्तु (गोपुरोगवम्) गमेर्डोः। उ० २।६७। गम्लृ गतौ-डो। गच्छतीति गौः। गोरतद्धितलुकि। पा० ५।४।९२। पुरोगो−टच्। पुरोगच्छतीति पुरोगवः। गावो धेनवः पुरोगव्यः प्रधाता यस्य तत्। अन्यत् स्पष्टम् ॥