मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः प्र॑म॒युः क॒था स्याः॑। उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
मा । त्वा । जम्भ: । सम्ऽहनु: । मा । तम: । विदत् । मा । जिह्वा । आ । बर्हि: । प्रऽमयु: । कथा । स्या: । उत् । त्वा । आदित्या: । वसव: । भरन्तु । उत् । इन्द्राग्नी इति । स्वस्तये ॥१.१६॥
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य कर्त्तव्य का उपदेश।