वांछित मन्त्र चुनें

यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च। इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥

मन्त्र उच्चारण
पद पाठ

याम् । ते । रुद्र: । इषुम् । आस्यत् । अङ्गेभ्य: । हृदयाय: । च । इदम् । ताम् । अद्य । त्वत् । वयम् । विषूचीम् । वि । वृहामसि ॥९०.१॥

अथर्ववेद » काण्ड:6» सूक्त:90» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कर्म के फल का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य !] (रुद्रः) पापियों के रुलानेवाले परमेश्वर ने (ते) तेरे (अङ्गेभ्यः) अङ्गों [शरीर] को पीड़ा देने (च) और (हृदयाय) हृदय [आत्मा] दुखाने के लिये (याम्) जिस (इषुम्) बरछी [पीड़ा] को (आस्यत्) छोड़ा है। (इदम्) सो (अद्य) अब (विषूचीम्) नाना गतिवाली (ताम्) उस [बरछी] को (वयम्) हम लोग (त्वत्) तुझ से (वि वृहामसि=०−मः) उखाड़ते हैं ॥१॥
भावार्थभाषाः - परमेश्वर अपनी न्यायव्यवस्था से पापियों को शारीरिक और आत्मिक दुःख देता और सुकर्म करने पर उन्हें उस क्लेश से छुड़ाकर आनन्दित करता है ॥१॥
टिप्पणी: १−(याम्) (ते) तव (रुद्रः) अ० १।१९।३। पापिनां रोदयिता (इषुम्) अ० १।१३।४। शक्तिनामायुधम्। पीडाम् (आस्यत्) असु क्षेपणे−लङ्। अक्षिपत् (अङ्गेभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इत्यप्रयुज्यमानस्य धातोः कर्मणि चतुर्थी। अङ्गानि पीडयितुम्। (हृदयाय) हृदयं दुःखयितुम् (च) (इदम्) तत्प्रतीकारार्थम् (ताम्) इषुम् (अद्य) इदानीम् (त्वत्) त्वत्तः (वयम्) सुकर्मिणः (विषूचीम्) अ० १।१९।१। विषु+अञ्चु गतिपूजनयोः−क्विन्। ङीप्। नानागतिम् (वि वृहामसि) वृहू उद्यमने। विवृहामः। उत्क्षिपामः ॥