ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त्। ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥
पद पाठ
ध्रुवा । द्यौ: । ध्रुवा । पृथिवी । ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवास: । पर्वता: । इमे। ध्रुव: । राजा । विशाम् । अयम् ॥८८.१॥
अथर्ववेद » काण्ड:6» सूक्त:88» पर्यायः:0» मन्त्र:1
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजतिलक यज्ञ के लिये उपदेश।
पदार्थान्वयभाषाः - (द्यौः) सूर्यलोक (ध्रुवा) दृढ़ है, (पृथिवी) पृथिवी (ध्रुवा) दृढ़ है, (इदम्) यह (विश्वम्) सब (जगत्) जगत् (ध्रुवम्) दृढ़ है। (इमे) यह सब (पर्वताः) पहाड़ (ध्रुवासः) दृढ़ हैं, (विशाम्) प्रजाओं का (अयम्) यह (राजा) राजा (ध्रुवः) दृढ़स्वभाव है ॥१॥
भावार्थभाषाः - जिस प्रकार सूर्य आदि पदार्थ अपने-अपने कर्त्तव्य में दृढ़ हैं, ऐसे ही निश्चलस्वभाव धर्मात्मा पुरुष को प्रजा लोग अपना राजा चुनें ॥१॥
टिप्पणी: १−(ध्रुवा) स्थिरा (द्यौः) अहर्नाम−निघ० १।२। द्यावो द्योतनात्−निरु० २।२०। प्रकाशमानः सूर्यलोकः (ध्रुवा) (पृथिवी) (ध्रुवम्) दृढम् (विश्वम्) सर्वम् (इदम्) दृश्यमानम् (जगत्) लोकः (ध्रुवासः) ध्रुवाः स्थिराः (पर्वताः) शैलाः (इमे) पुरोवर्तमानाः (ध्रुवः) निश्चलः। धार्मिकः (राजा) शासकः (विशाम्) प्रजानाम् (अयम्) पुरोवर्त्ती शूरः ॥