वांछित मन्त्र चुनें

वृषेन्द्र॑स्य॒ वृषा॑ दि॒वो वृषा॑ पृथि॒व्या अ॒यम्। वृषा॒ विश्व॑स्य भू॒तस्य॒ त्वमे॑कवृ॒षो भ॑व ॥

मन्त्र उच्चारण
पद पाठ

वृषा । इन्द्रस्य । वृषा । दिव: । वृषा । पृथिव्या: । अयम् । वृषा । विश्वस्य । भूतस्य । त्वम् । एकऽवृष: । भव ॥८६.१॥

अथर्ववेद » काण्ड:6» सूक्त:86» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

साम्राज्य पाने का उपदेश।

पदार्थान्वयभाषाः - (अयम्) यह [परमेश्वर] (इन्द्रस्य) सूर्य का (वृषा) स्वामी, (दिवः) अन्तरिक्ष का (वृषा) स्वामी, (पृथिव्याः) पृथिवी का (वृषा) स्वामी और (विश्वस्य) सब (भूतस्य) प्राणियों का (वृषा) स्वामी है, [हे पुरुष !] (त्वम्) तू (एकवृषः) अकेला स्वामी (भव) हो ॥१॥
भावार्थभाषाः - मनुष्य परमेश्वर की सर्वशक्तिमत्ता और सर्वशासकता विचार कर अपनी शक्ति बढ़ा कर चक्रवर्त्ती राज्य प्राप्त करे ॥१॥
टिप्पणी: १−(वृषा) अ० १।१२।१। वृषु सेचने, प्रजनैश्ययोः−कनिन्, ईश्वरः। स्वामी (इन्द्रस्य) सूर्यस्य (दिवः) अन्तरिक्षस्य (पृथिव्याः) भूम्याः (अयम्) प्रसिद्धः परमेश्वरः (विश्वस्य) सर्वस्य (भूतस्य) प्राणिजातस्य (त्वम्) (एकवृषः) अ० ४।२२।१। वृषु ऐश्वर्ये−क। अद्वितीयप्रधानः। सार्वभौमः (भव) ॥