वांछित मन्त्र चुनें

निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्। सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥

मन्त्र उच्चारण
पद पाठ

नि:ऽहस्त: । शत्रु: । अभिऽदासन् । अस्तु । ये । सेनाभि: । युधम् । आऽयन्ति । अस्मान् । सम् । अर्पय । इन्द्र । महता । वधेन । द्रातु । एषाम् । अघऽहार: । विऽविध्द: ॥६६.१॥

अथर्ववेद » काण्ड:6» सूक्त:66» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सेनापति के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (शत्रुः) शत्रु (न) हम पर (अभिदासन्) चढ़ाई करता हुआ (निर्हस्तः) निहत्था (अस्तु) होवे, [और ये भी,] (ये) जो (सेनाभिः) अपनी सेनाओं के साथ (युधम्) युद्ध करने के लिये (अस्मान्) हम पर (आयन्ति) चले आते हैं। (इन्द्र) हे प्रतापी सेनापति इन्द्र ! [उन सब को] (महता) बड़े (वधेन) वध के साथ (समर्पय) मार गिरा, (एषाम्) इन सब का (अघहारः) दुःखदायी प्रधान (विविद्धः) आर-पार छिदकर (द्रातु) भाग जावे ॥१॥
भावार्थभाषाः - चतुर सेनापति शत्रुओं और उनकी सेनाओं को अपनी सुशिक्षित सेना द्वारा हरा कर भगा देवे ॥१॥
टिप्पणी: १−(निर्हस्तः) निर्गतहस्तसामर्थ्यः (शत्रुः) अरिः (अभिदासन्) दास वधे−शतृ। अभिहिंसन् (अस्तु) (ये) ये तेऽपि (सेनाभिः) सैन्येः (युधम्) युध संप्रहारे−क्विप्। चतुर्थ्यर्थे द्वितीया। युधे। युद्धाय (आयन्ति) अभिगच्छन्ति (अस्मान्) धार्मिकान् (समर्पय) अ० ५।२२।६। ऋ हिंसायाम्−णिच् पुक्। सम्यग् विनाशय (इन्द्र) हे प्रतापिन् सेनापते (महता) विशालेन (वधेन) हननेन (द्रातु) द्रा कुत्सायां गतौ। पलायताम् (एषाम्) शत्रूणाम् (अघहारः) कर्मण्यण्। पा० ३।२।१। इति−अघ+हृञ् हरणे−अण्। अघस्य दुःखस्य प्रापयिता (विविद्धः) व्यध ताडने−क्त। विशेषेण छिन्नः ॥