स॑मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्। स॑मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम् ॥
पद पाठ
समान: । मन्त्र: । सम्ऽइति: । समानी । समानम् । व्रतम् । सह । चित्तम् । एषाम् । समानेन । व: । हविषा । जुहोमि । समानम् । चेत: । अभिऽसंविशध्वम् ॥६४.२॥
अथर्ववेद » काण्ड:6» सूक्त:64» पर्यायः:0» मन्त्र:2
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
संगति के लाभ का उपदेश।
पदार्थान्वयभाषाः - [हे मनुष्यो तुम्हारा] (मन्त्रः) मन्त्र, विचार (समानः) एकसा, (समितिः) समिति [सामाजिक व्यवस्था] (समानी) एकसी, (व्रतम्) धर्म का आचरण (समानम्) एकसा और (एषाम्) इन तुम सब का (चित्तम्) चित्त [सब पदार्थों का ज्ञान] (सह) मिला हुआ होवे। (समानेन) एक से (हविषा) ग्राह्य धर्म के साथ (वः) तुम को (जुहोमि) मैं ग्रहण करता हूँ, (समानम्) एक से (चेतः) चिन्तन [भूत, भविष्यत् के अनुभव के स्मरण] में (अभिसंविशध्वम्) तुम भली-भाँति प्रवेश करो ॥२॥
भावार्थभाषाः - मनुष्यों को योग्य है कि सदा वेदमार्ग पर चलकर एकचित्त होकर धर्मसभा, विद्यासभा, राजसभा आदि बनाकर बुद्धि, बल, और पराक्रम आदि उत्तम गुण बढ़ावें ॥२॥
टिप्पणी: २−(समानः) सम्+अन प्राणने−घञ्। तुल्यः। एकरूपः (मन्त्रः) मत्रि गुप्तभाषणे−घञ्। सत्यासत्यविवेकः (समितिः) सम्+इण्−क्तिन्। संगतिः। सभा (समानी) एकरसा (समानम्) अविरुद्धम् (व्रतम्) अ० २।३०।२। वृञ्−अतच्। वरणीयं धर्माचरणम् (सह) संगतम् (चित्तम्) सर्वपदार्थविषयि ज्ञानम् (एषाम्) एतेषां युष्माकम् (समानेन) एकरूपेण (वः) युष्मान् (हविषा) ग्राह्येण धर्मणा (जुहोमि) हु दानादानादनेषु। आददे। स्वीकरोमि (समानम्) साधारणम् (चेतः) पूर्वापरानुभूतं स्मरणात्मकं चिन्तनम् (अभिसंविशध्वम्) अभितः प्रविशत। आत्मनि धारयत ॥