वांछित मन्त्र चुनें

नमो॑ऽस्तु ते निरृते तिग्मतेजोऽय॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्। य॒मो मह्यं॒ पुन॒रित्त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥

मन्त्र उच्चारण
पद पाठ

नम: । अस्तु । ते । नि:ऋते । तिग्मऽतेज: । अयस्मयान् । वि । चृत । बन्धऽपाशान् । यम: । मह्यम् । पुन: । इत् । त्वाम् । ददाति । तस्मै । यमाय । नम: । अस्तु । मृत्यवे ॥६३.२॥

अथर्ववेद » काण्ड:6» सूक्त:63» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मोक्षप्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (तिग्मतेजः) हे तेज नाश करनेवाली (निर्ऋते) अलक्ष्मी (ते) तेरे लिये (नमः) वज्र (अस्तु) होवे, (अयस्मयान्) लोहे के बनी (बन्धपाशान्) बन्धन की बेड़ियों को (वि चृत) तोड़ डाल। (यमः) न्यायकारी परमेश्वर (मह्यम्) मेरे लिये (पुनः) बारंबार (इत्) ही (त्वाम्) तुझको (ददाति) देता है, (तस्मै) उस (यमाय) न्यायकारी परमेश्वर को (मृत्यवे) दुःखरूप मृत्युनाश करने के लिय (नमः) नमस्कार (अस्तु) होवे ॥२॥
भावार्थभाषाः - परमेश्वर अपनी न्यायव्यवस्था से दुष्कर्मियों को अनेक दारुण दुःख देता है, इसलिये मनुष्य ज्ञान द्वारा पापों से बचकर मृत्यु अर्थात् दुःख से बचे रहें ॥२॥
टिप्पणी: २−(नमः) वज्रः−निघ० २।२०। (अस्तु) (ते) तुभ्यम् (निर्ऋते) हे अलक्ष्मि (तिग्मतेजः) इषियुधीन्धि०। उ० १।१४५। इति तिग गतौ−हिंसायां च−मक्। तिग्मानि हिंसितानि तेजांसि यया सा तिग्मतेजाः, तत्सम्बुद्धौ। हे नाशिततेजः (अयस्मयान्) लोहमयान्, अतिदृढान् (विचृत) चृती हिंसाग्रन्थनयोः। विहिन्धि। विनाशय (बन्धपाशान्) बन्धनजालान् (यमः) न्यायकारी परमेश्वरः (मह्यम्) प्राणिने (पुनः) बारं बारम् (इत्) एव (त्वाम्) निर्ऋतिम् (ददाति) प्रयच्छति। अन्यद् व्याख्यातम्−अ० ६।२८।३ ॥