वांछित मन्त्र चुनें

यददी॑व्यन्नृ॒णम॒हं कृ॒णोम्यदा॑स्यन्नग्न उ॒त सं॑गृ॒णामि॑। वै॑श्वान॒रो नो॑ अधि॒पा वसि॑ष्ठ॒ उदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥

मन्त्र उच्चारण
पद पाठ

यत् । अदीव्यन् । ऋणम् । अहम् । कृणोमि । अदास्यन् । अग्ने । उत । सम्ऽगृणामि । वैश्वानर: । न: । अधिऽपा: । वसिष्ठ: । उत् । इत् । नयाति । सुऽकृतस्य । लोकम् ॥११९.१॥

अथर्ववेद » काण्ड:6» सूक्त:119» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वचन के प्रति पालन का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे सर्वज्ञ परमेश्वर ! (अदीव्यन्) व्यवहार न करता हुआ (अहम्) मैं (यत्) जो (ऋणम्) ऋण (कृणोमि) करुँ (उत) अथवा (अदास्यन्) चुकाना न चाहता हुआ (संगृणामि) प्रण करूँ। (वैश्वानरः) सब नरों का स्वामी, (अधिपाः) अधिक पालन करनेवाला, (वसिष्ठः) अति उत्तम परमेश्वर (इत्) ही (नः) हमें (सुकृतस्य) पुण्य कर्म के (लोकम्) लोक [समाज] में (उन्नयाति) ऊँचा चढ़ावे ॥१॥
भावार्थभाषाः - मनुष्य परमेश्वर को साक्षी करके पुरुषार्थपूर्वक माता-पिता आदि के ऋण को चुकावें और अपने वचन को मिथ्या न करें ॥१॥
टिप्पणी: १−(यत्) (अदीव्यन्) व्यवहारम् अकुर्वन् (ऋणम्) (अहम्) (कृणोमि) करोमि (अदास्यन्) प्रतिदानम् अकरिष्यत् (अग्ने) हे सर्वज्ञ परमात्मन् (उत) अपि (संगृणामि) गॄ शब्दे। प्रतिजानामि (वैश्वानरः) अ० १।१०।४। सर्वनरहित (नः) अस्मान् (अधिपाः) अधिकं पालयिता (वसिष्ठः) वसु−इष्ठन्। अतिश्रेष्ठः परमेश्वरः (इत्) एव (उन्नयाति) ऊर्ध्वं प्रापयेत् (सुकृतस्य) पुण्यकर्मणः (लोकम्) समाजम् ॥