वांछित मन्त्र चुनें

इ॒हैव सन्तः॒ प्रति॑ दद्म एनज्जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत्। अ॑प॒मित्य॑ धा॒न्य यज्ज॒घसा॒हमि॒दं तद॑ग्ने अनृ॒णो भ॑वामि ॥

मन्त्र उच्चारण
पद पाठ

इह । एव । सन्त: । प्रति । दद्म: । एनत् । जीवा: । जीवेभ्य: । नि । हराम: । एनत् । अपऽमित्य । धान्यम् । यत् । जघस । अहम् । इदम् । तत् । अग्ने। अनृण: । भवामि ॥११७.२॥

अथर्ववेद » काण्ड:6» सूक्त:117» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऋण से छूटने का उपदेश।

पदार्थान्वयभाषाः - (इह) यहाँ [इस शरीर में] (एव) ही (सन्तः) रहते हुए हम (एनत्) इस [ऋण] को (प्रति दद्मः) चुका देवें, (जीवाः) जीते हुए हम (जीवेभ्यः) जीते हुए पुरुषों को (एनत्) यह [उधार] (नि) नियम से (हरामः) दे देवें। (यत्) जो (धान्यम्) धान्य (अपमित्य) उधार लेकर (अहम्) मैंने (जघस) खाया है, (अग्ने) हे विद्वान् ! (इदम्) अभी (तत्) उससे मैं (अनृणः) अऋण (भवामि) हो जाऊँ ॥२॥
भावार्थभाषाः - मनुष्य संसार के सब जीवों का उपकार अपने पर विचार कर अपने और उनके जीवन में ही यथोचित सेवा से उनका ऋण चुकावे ॥२॥
टिप्पणी: २−(इह) अस्मिन् शरीरे (एव) (सन्तः) विद्यमाना वयम् (प्रति दद्मः) प्रत्यर्पयामः (एनत्) ऋणम् (जीवाः) जीवन्तो वयम् (नि) नियमेन (हरामः) प्रापयामः (एनत्) ऋणम् (अपमित्य) उदीचां माङो व्यतीहारे। पा० ३।४।१९। इति मेङ् प्रणिदाने−क्त्वा, ल्यबादेशे। मयतेरिदन्यतरस्याम् पा० ६।१।७१। इति। तुक्। ऋणे गृहीत्वा (धान्यम्) अन्नम् (जघस) अद भक्षणे, लिटि घस्लृ आदेशः। भक्षितवानस्मि (अहम्) (इदम्) इदानीम् (तत्) तस्मात् (अग्ने) विद्वन् (अनृणः) ऋणरहितः (भवामि) ॥