वांछित मन्त्र चुनें

अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः। इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥

मन्त्र उच्चारण
पद पाठ

अमी इति । ये । युधम् । आऽयन्ति । केतून् । कृत्वा । अनीकऽश: । इन्द्र: । तान् । परि । अहा: । दाम्ना । तान् । अग्ने । सम् । द्य । त्वम् ॥१०३.३॥

अथर्ववेद » काण्ड:6» सूक्त:103» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शत्रुओं के हराने का उपदेश।

पदार्थान्वयभाषाः - (अमी ये) वे जो शत्रु (केतून्) ध्वजा पताकायें (कृत्वा) बनाकर (अनीकशः) टोली-टोली से (युधम्) युद्ध में (आयन्ति) आते हैं। (इन्द्रः) महाप्रतापी राजा ने (तान्) उन चोरों को (परि) सब ओर से (अहाः) नाश कर दिया है, (अग्ने) हे विद्वन् राजन् ! (त्वम्) तू (दाम्ना) पाश से (तान्) म्लेच्छों को (सम् द्य) बाँध ले ॥३॥
भावार्थभाषाः - शत्रुओं को रणक्षेत्र में आते हुए देखकर सेनापति व्यूहरचना करके उन्हें रोके ॥३॥
टिप्पणी: ३−(अमी) दूरे दृश्यमानाः (ये) शत्रवः (युधम्) संग्रामम् (केतून्) चायः की। उ० १।७४। चायृ पूजानिशामनयोः−तु, यद्वा, कि ज्ञाने−तु। केतुः प्रज्ञा−निघ० ३।९। केतुना कर्मणा प्रज्ञया वा−निरु० ११।२७। ज्ञापकान् ध्वजान् (कृत्वा) अनुष्ठाय (अनीकशः) अ० ५।२१।८। सघशः। अन्यत् पूर्ववत्−म० २ ॥