यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति विप्राः। ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्दु॒रेवा॑सः क॒शोकाः॑ ॥
पद पाठ
यदि । चित् । नु। त्वा । धना । जयन्तम् । रणेऽरणे । अनुऽमदन्ति । विप्रा: । ओजीय: । शुष्मिन् । स्थिरम् । आ ।तनुष्व । मा । त्वा । दभन् । दु:ऽएवास: । कशोका: ॥२.४॥
अथर्ववेद » काण्ड:5» सूक्त:2» पर्यायः:0» मन्त्र:4
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - (यदि) जो (चित्) निश्चय करके (विप्राः) पण्डित जन (रणेरणे) प्रत्येक रण में (नु) शीघ्र (धना) धनों को (जयन्तम्) जीतनेवाले (त्वा) तेरे (अनु मदन्ति) पीछे-पीछे आनन्द पाते हैं। (शुष्मिन्) हे बलवन् परमात्मन् ! (ओजीयः) अधिक बलवान् (स्थिरम्) स्थिर मोक्षसुख (आ) सब ओर से (तनुष्व) फैला। (दुरेवासः=दुरेवाः) दुष्ट गतिवाले (कशोकाः) परसुख में शोक करनेवाले जन (त्वा) तुझ को (मा दभन्) न सतावें ॥४॥
भावार्थभाषाः - बुद्धिमान् मनुष्य विघ्नों को हटाकर कठिन-कठिन कार्य सिद्ध करके स्थिर सुख पाते हैं ॥४॥
टिप्पणी: ४−(यदि) सम्भावनायाम् (चित्) एव (नु) क्षिप्रम् (त्वा) त्वाम् (धना) धनानि (जयन्तम्) जयेन प्राप्नुवन्तम् (रणेरणे) सर्वस्मिन् युद्धे (अनुमदन्ति) अनुसृत्य हृष्यन्ति (विप्राः) मेधाविनः (ओजीयः) ओजस्वि−ईयसुन्। विन्मतोर्लुक्। पा० ५।३।६५। इति विनो लुक्, टिलोपः। बलवत्तरम् (शुष्मिन्) हे बलवन् (स्थिरम् निश्चलं मोक्षसुखम् (आ) समन्तात् (तनुष्व) विस्तारय (मा दभन्) मा हिंसन्तु (त्वा) त्वाम् (दुरेवासः) इण्शीभ्यां वन्। उ० १।१५२। इति दुर्+इण् गतौ−वन्, असुक्। दुर्गतयः पुरुषाः (कशोकाः) कं सुखम्−निघ० ३।६। के परसुखे शोकः खेदो येषां ते ॥