वांछित मन्त्र चुनें

न व॒र्षं मै॑त्रावरु॒णं ब्र॑ह्म॒ज्यम॒भि व॑र्षति। नास्मै॒ समि॑तिः कल्पते॒ न मि॒त्रं न॑यते॒ वश॑म् ॥

मन्त्र उच्चारण
पद पाठ

न । वर्षम् । मैत्रावरुणम् । ब्रह्मऽज्यम् । अभि । वर्षति । न । अस्मै । सम्ऽइति: ।कल्पते । न । मित्रम् । नयते । वशम् ॥१९.१५॥

अथर्ववेद » काण्ड:5» सूक्त:19» पर्यायः:0» मन्त्र:15


75 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

नास्तिक के तिरस्कार का उपदेश।

पदार्थान्वयभाषाः - (मैत्रावरुणम्) वायु और सूर्य से किया हुआ (वर्षम्) वर्षाजल (ब्रह्मज्यम् असि) ब्राह्मण को हानि पहुँचानेवाले पर (न) नहीं (वर्षति) वर्षता है। और (न) न (अस्मै) इसके लिये (समितिः) सभा (कल्पते) समर्थ होती है, और (न) न वह (मित्रम्) मित्र को (वशम्) अपने वश में (नयते) लाता है ॥१५॥
भावार्थभाषाः - वेदविरोधी पुरुष आधिदैविक, आधिभौतिक, और आध्यात्मिक शान्ति न पाकर सदा दुःखी रहता है ॥१५॥
टिप्पणी: १५−(न) निषेधे (वर्षम्) वृष्टिः (मैत्रावरुणम्) तेन निर्वृत्तम्। पा० ४।२।६८। इति मित्रावरुणा−अण्। मित्रावरुणाभ्यां वायुसूर्याभ्यां निर्वृत्तं निष्पादितम् (ब्रह्मज्यम्) म० ७। ब्राह्मणस्य हानिकरम् (अभि) प्रति (वर्षति) सिञ्चति (न) (अस्मै) ब्रह्मविरोधिने (समितिः) सभा (कल्पते) समर्था सफला भवति (न) (मित्रम्) सुहृदम् (नयते) प्रापयति (वशम्) अधीनत्वम् ॥