वांछित मन्त्र चुनें

ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः सिं॒हं हि॑न्वन्ति मह॒ते सौभ॑गाय। स॑मु॒द्रं न॑ सु॒भुव॑स्तस्थि॒वांसं॑ मर्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्वन्तः ॥

मन्त्र उच्चारण
पद पाठ

एना । व्याघ्रम् । परिऽसस्वजाना: । सिंहम् । हिन्वन्ति । महते । सौभगाय । समुद्रम् । न । सुऽभुव: । तस्थिऽवांसम् । मर्मृज्यन्ते । द्वीपिनम् । अप्ऽसु । अन्त: ॥८.७॥

अथर्ववेद » काण्ड:4» सूक्त:8» पर्यायः:0» मन्त्र:7


97 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजतिलक यज्ञ का उपदेश।

पदार्थान्वयभाषाः - (परिषस्वजानाः) सब ओर से चिपटे हुए लोग (एना=एनम्) इस (व्याघ्रम्) व्याघ्ररूप और (सिंहम्) सिंहसमान [पराक्रमी राजा] को (महते) बहुत ही (सौभगाय) बड़े ऐश्वर्य के लिये (हिन्वन्ति) तृप्त करते हैं, और (सुभुवः) सुन्दर जन्म वा बड़ी भूमिवाले पुरुष (अप्सु अन्तः) जलों के भीतर (तस्थिवांसम्) स्थित हुए, (समुद्रम् न) समुद्र के समान् [गम्भीर स्वभाव] और (द्वीपिनम्) चीते [के तुल्य पराक्रमी राजा] को (मर्मृज्यन्ते) अनेक प्रकार से शुद्ध करते वा सजाते हैं ॥७॥
भावार्थभाषाः - अभिषेक विधि के समाप्त हो चुकने पर सब बड़े-बड़े लोग प्रशंसा करके राजा का उत्साह बढ़ावें और अलंकार आदि से उसको यथावत् शोभायमान करें ॥७॥
टिप्पणी: ७−(एना) द्वितीयाटौस्स्वेनः। पा० २।४।३४। इति एतच्छब्दस्य एनादेशो द्वितीयायाम्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः आच्। चितः। पा० ६।१।१६३। इति चित्वाद् अन्तोदात्तः। एनम् (व्याघ्रम्) व्याघ्रवत् पराक्रमयुक्तम् (परिषस्वजानाः) ष्वञ्ज सङ्गे-लिटः कानच्। आलिङ्गन्तः। परितः संगच्छमानाः पुरुषाः (सिंहम्) सिचेः संज्ञायां हनुमौ कश्च। उ० ५।६२। इति षिच क्षरणे क प्रत्ययः, चस्य हकारो नुम् च। यद्वा। आद्यन्तविपर्यये। हिसि वधे-अच्। हिनस्तीति सिंहः। पञ्चास्यः। सिंहः सहनाद्धिंसेर्वा स्याद् विपरीतस्य सम्पूर्वस्य वा हन्तेः संहाय हन्तीति वा-निरु० ३।१८, सिंहतुल्यपराक्रमवन्तं राजानम् (हिन्वन्ति) हिवि प्रीणने। इदित्त्वान्नुम्। प्रीणयन्ति। तर्पयन्ति (महते) अधिकाय (सौभगाय) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्। पा० ५।१।१२९। इति सुभग मन्त्रे, इति उद्गात्रादिषु पाठाद् भावे अञ्। ञित्यादिर्नित्यम्। पा० ६।१।१९७। इति आद्युदात्तः। सुभगत्वाय। शोभनैश्वर्याय (समुद्रम् न) समुद्रवद् गम्भीरस्वभावम् (सुभुवः) सु+भू-क्विप्। शोभना भूरुत्पत्तिर्भूमिर्वा यस्य स सुभूः शोभनजन्मानः। यद्वा। शोभनभूमयः पुरुषाः (तस्थिवांसम्) ष्ठा गतिनिवृत्तौ-क्वसु। स्थितवन्तम् (मर्मृज्यन्ते) मृजू शौचालंकारयोः। यङि निपातनादभ्यासस्य रुगागमः। पुनः पुनः, अत्यर्थं वा शोधयन्ति अलंकुर्वन्ति वा (द्वीपिनम्) द्वि+ई गतौ-प प्रत्ययः। द्वौ वर्णौ ईयते द्वीपं द्विवर्णं चर्म। अत इनिठनौ। पा० ५।२।१२५। इति इनि। शार्दूलवद् अधृष्यं राजानम् (अप्सु) उदकेषु (अन्तः) मध्ये ॥