वांछित मन्त्र चुनें

तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न्वैबाध॒दोध॑तः। इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ॥

मन्त्र उच्चारण
पद पाठ

तान् । अश्वत्थ: । नि: । शृणीहि । शत्रून् । वैबाधऽदोधत: । इन्द्रेण । वृत्रऽघ्ना । मेदी । मित्रेण । वरुणेन । च ॥६.२॥

अथर्ववेद » काण्ड:3» सूक्त:6» पर्यायः:0» मन्त्र:2


84 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

उत्साह बढ़ाने के लिये उपदेश।

पदार्थान्वयभाषाः - (अश्वत्थ) हे बलवानों में ठहरनेवाले शूर [वा पीपलवृक्ष !] (वृत्रघ्ना) अन्धकार मिटानेवाले (इन्द्रेण) सूर्य से, (मित्रेण) प्रेरणा करनेवाले वायु से (च) और (वरुणेन) स्वीकार करने योग्य जल से (मेदी+सन्) स्नेही होकर (तान्) उन (वैबाधदोधतः) विविध बाधा डालनेवाले क्रोधशील (शत्रून्) शत्रुओं वा रोगों को (निः) सर्वथा (शृणीहि) मार डाल ॥२॥
भावार्थभाषाः - राजा सूर्यादि के समान गुणयुक्त होकर भीतरी और बाहरी वैरियों का और सद्वैद्य पीपल के प्रयोग से रोगों का नाश करके प्रजा में शान्ति रक्खे ॥२॥
टिप्पणी: २−(तान्)। प्रसिद्धान्। (अश्वत्थ)। म० १। हे अश्वेषु बलवत्सु। स्थितिशील शूररराजन्। (निः)। निः शेषम्। (शृणीहि)। शॄ हिंसायाम्। घातय (शत्रून्)। अपकारिणः। (वैबाधदोधतः)। तस्येदम्। पा० ४।३।१२०। इति विबाध+अण्। विविधं बाधः प्रतिरोधो यस्य स वैबाधः। दोधतिः क्रुध्यतिकर्मा-निघ० २।१२। नैरुक्तो धातुः-शतृप्रत्ययः। वैबाधान् विबाधकान् दोधतः क्रोधशीलान्। (इन्द्रेण)। ऐश्वर्यवता सूर्येण। (वृत्रघ्ना)। ब्रह्मभ्रूणवृत्रेषु-क्विप्। पा० ३।२।८७। इति वृत्र+हन वधे-क्विप्। अन्धकारं हतवतः। (मेदी)। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति ञिमिदा स्नेहे-णिनि। घञन्ताद्वा मत्वर्थीय इनि। स्नेही। (मित्रेण)। अ० १।३।२। डुमिञ् प्रक्षेपणे-क्त्र। यद्वा। ञिमिदा स्नेहे-त्र। सर्वप्रेरकः। स्नेहवान्। वायुः। मध्यस्थानदेवता-निरु० १०।२१-२२। (वरुणेन)। अ० १।३।३। मध्यस्थानदेवता-निरु० १०।३। वृष्टिजलेन ॥