वांछित मन्त्र चुनें

ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑। उ॑प॒स्तीन्प॑र्ण॒ मह्यं॑ त्वं॒ सर्वा॑न्कृण्व॒भितो॒ जना॑न् ॥

मन्त्र उच्चारण
पद पाठ

ये । धीवान: । रथऽकारा: । कर्मारा: । ये । मनीषिण: । उपऽस्तीन् । पर्ण । मह्यम् । त्वम् । सर्वान् । कृणु । अभित: । जनान् ॥५.६॥

अथर्ववेद » काण्ड:3» सूक्त:5» पर्यायः:0» मन्त्र:6


98 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

तेज, बल, आयु, धनादि बढ़ाने का उपदेश।

पदार्थान्वयभाषाः - (ये) जो (धीवानः) तीक्ष्ण बुद्धिवाले (रथकाराः) रथों के बनानेवाले और (ये) जो (मनीषिणः) बड़े पण्डित (कर्माराः) कर्मों में गति रखनेवाले शिल्पीजन हैं। (पर्ण) हे पालन करनेवाले परमेश्वर ! (त्वम्) तू (मह्यम्) मेरेलिये (सर्वान्) उन सब (जनान्) जनों को (अभितः) चारों ओर से (उपस्तीन्) समीपवर्ती (कृणु) कर ॥६॥
भावार्थभाषाः - सब मनुष्यों और विशेषकर राजा लोगों को चाहिये कि भूमिरथ, आकाशरथ, जलरथ आदि के बनानेवाले और अन्य शिल्पकर्मी, विश्वकर्मा चतुर विद्वानों का सत्कार करते रहें, जिससे अनेक व्यापारों से संसार में उन्नति होवे ॥६॥
टिप्पणी: ६−(ये)। प्रसिद्धाः। (धीवानः)। ध्याप्योः सम्प्रसारणं च। उ० ४।११५। इति ध्यै चिन्तने-क्वनिप्। ध्यानशीलाः। पण्डिताः। (रथकाराः)। कर्मण्यण्। पा० ३।२।१। इति रथ+कृञ्-अण् विमानादिनिर्मातारः। (कर्माराः)। कर्म+ऋ गतौ-अण् पूर्ववत्। कर्माणि ऋच्छन्ति गच्छन्ति प्राप्नुवन्तीति। विश्वकर्माणः। कर्मकाराः। अस्त्रशस्त्रकारिणः। (मनीषिणः) कॄतॄभ्यामीषन्। उ० ४।२६। इति मनु अवबोधने-ईषन्। टाप्। मनीषा प्रज्ञाऽस्यास्ति व्रीह्यादित्वाद् इनि। यद्वा। ईष गतौ-अ, टाप्। शकन्ध्वादिषु पररूपं वाच्यम्। वार्त्तिकम्। पा० १।१।६४। इति पररूपम्। मनस् ईषा मनस ईषा मनीषा मनोगतिर्बुद्धिः। पूर्ववद्-इनि। मेधाविनः पुरुषाः-निघ० ३।१५। पण्डिताः। (उपस्तीन्)। उप+अस सत्तायाम्, यद्वा, आस उपवेशने-क्तिच्। आदिलोपश्छान्दसः। समीपे विद्यमानान्। उपासीनान्। (पर्ण)। म० १। हे पालक, पूरक। (मह्यम्)। मदर्थम्। (सर्वान्)। अखिलान्। (कृणु)। कुरु। (अभितः)। सर्वतः। (जनान्)। लोकान् ॥