वांछित मन्त्र चुनें

अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑। भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥

मन्त्र उच्चारण
पद पाठ

अति । इत् । ऊं इति । शक्र: । ओहते । इन्द्र: । विश्वा: । अति । द्विष: ॥ भिनत् । कनीन: । ओदनम् । पच्यमानम् । पर: । गिरा ॥९२.११॥

अथर्ववेद » काण्ड:20» सूक्त:92» पर्यायः:0» मन्त्र:11


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।

पदार्थान्वयभाषाः - (शक्रः) शक्तिमान् (इन्द्रः) इन्द्र [परम ऐश्वर्यवाला परमात्मा] (इत्) ही (उ) अवश्य (अति) तिरस्कार करके (विश्वाः) सब (द्विषः) विरोध करनेवाली प्रजाओं को (अति) सर्वथा (ओहते) मारता है, [जैसे] (कनीनः) चमकता हुआ सूर्य (गिरा) वाणी [गर्जन] से (पच्यमानम्) पचाये गये [ताड़े गये] (ओदनम्) मेघ को (परः) दूर (भिनत्) छिन्न-भिन्न करता है ॥११॥
भावार्थभाषाः - सर्वशक्तिमान् परमेश्वर हमारे सब विघ्नों को दूर कर देता है, जैसे सूर्य मेघ को छिन्न-भिन्न करके प्रकाश करता है ॥११॥
टिप्पणी: ११−(अति) अतीत्य। उल्लङ्घ्य (इत्) एव (उ) अवश्यम् (शक्रः) शक्तिमान् (ओहते) उहिर् अर्दने। नाशयति (इन्द्रः) परमैश्वर्यवान् परमेश्वरः (विश्वाः) सर्वाः (अति) सर्वथा (द्विषः) द्वेष्ट्रीः प्रजाः (भिनत्) भिनत्ति (कनीनः) कनतिः कान्तिकर्मा-निघ० २।६। ईन् प्रत्ययः। प्रकाशमानः सूर्यः (ओदनम्) मेघम्-निघ० १।१०। (पच्यमानम्) ताड्यमानमित्यर्थः (परः) परस्तात्। दूरे (गिरा) शब्देन। गर्जनेन ॥