वांछित मन्त्र चुनें

स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः। ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्यानट् ॥

मन्त्र उच्चारण
पद पाठ

स: । ईम् । सत्येभि: । सखिऽभि: । शुचत्ऽभि: । गोऽधायसम् । वि । धनऽसै: । अदर्दरित्यदर्द: ॥ ब्रह्मण: । पति: । वृषऽभि: । वराहै: । घर्मऽस्वेदेभि: । द्रविणम् । वि । आनट् ॥९१.७॥

अथर्ववेद » काण्ड:20» सूक्त:91» पर्यायः:0» मन्त्र:7


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा के गुणों का उपदेश।

पदार्थान्वयभाषाः - (सः) उस (ब्रह्मणः) ब्रह्माण्ड के (पतिः) स्वामी [परमेश्वर] ने (सत्येभिः) सत्य (सखिभिः) मित्ररूप, (शुचद्भिः) प्रकाशमान, (धनसैः) धन देनेवाले, (वृषभिः) बलवान्, (वराहैः) उत्तम आहार [भोजनादि] देनेवाले, (घर्मस्वेदेभिः) ताप और भाप रखनेवाले गुणों से (ईम्) प्राप्त हुए (गोधायसम्) वज्र रखनेवाले [शत्रु] को (अदर्दः) फाड़ डाला और (द्रविणम्) धन को (वि आनट्) प्राप्त किया है ॥७॥
भावार्थभाषाः - परमात्मा अपने सत्य आदि गुणों से सब क्लेशों को हटाकर हमें धन आदि देकर आनन्द देता है ॥७॥
टिप्पणी: ७−(सः) (ईम्) प्राप्तम् (सत्येभिः) सत्यशीलैः (सखिभिः) मित्रभूतैः (शुचद्भिः) दीप्यमानैः (गोधायसम्) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वञ्च। उ० ४।२२७। गो+दधातेः-असि, णित्। गोर्वज्रस्य धारकं शत्रुम् (धनसैः) षणु दाने-उ। धनदातृभिः (अदर्दः) दॄ विदारणे-यङ्लुगन्ताल्लङि रूपम्। भृशं विदारितवान् (ब्रह्मणः) प्रवृद्धस्य ब्रह्माण्डस्य (पतिः) स्वामी (वृषभिः) बलवद्भिः (वराहैः) अ० ८।७।२३। अन्येष्वपि दृश्यते। पा० ३।२।१०१। वर+आङ्+हृञ् हरणे-डप्रत्ययः। वरः श्रेष्ठ आहारो भोजनादिकं योग्यस्तैः। वराहारदातृभिः (घर्मस्वेदेभिः) घर्मस्तापः स्वेदो वाष्पश्च येभ्यस्तादृशगुणैः (द्रविणम्) धनम् (वि) विविधम् (आनट्) अ० १८।३।९। आनशे। प्राप्तवान् ॥