वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: कृष्णः छन्द: त्रिष्टुप् स्वर: सूक्त-८९

धनं॒ न स्प॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान्। तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥

मन्त्र उच्चारण
पद पाठ

धनम् । न । स्पन्द्रम् । बहुलम् । य: । अस्मै । तीव्रान् । सोमान् । आऽसुनोति । प्रयस्वान् ॥ तस्मै । शत्रून् । सुऽतुकान् । प्रात: । अह्न: । नि । सुऽअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥८९.५॥

अथर्ववेद » काण्ड:20» सूक्त:89» पर्यायः:0» मन्त्र:5


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (यः) जो (प्रयस्वान्) अन्नवाला पुरुष (अस्मै) इस [वीर] को (बहुलम्) बहुत से (स्पन्द्रम्) शीघ्र प्राप्त होनेवाले (धनम् न) धन के समान (तीव्रान्) तीव्र (सोमान्) सोम [तत्त्व रसों] को (आसुनोति) सिद्ध करता है। (तस्मै) उस [पुरुष] के लिये (सुतुकान्) बड़े हिंसक, (स्वष्ट्रान्) तीक्ष्ण शस्त्रोंवाले (शत्रून्) वैरियों को (अह्नः) दिन के (प्रातः) प्रातःकाल में [अर्थात् प्रकाशरूप से] (नि युवति) वह [वीर] हटा देता है और (वृत्रम्) धन को (हन्ति) प्राप्त होता है ॥॥
भावार्थभाषाः - जैसे प्रजागण धन मन और विद्याबल से प्रधान पुरुष की सहायता करें, वह वीर भी उसी प्रकार दुष्टों से प्रजा की रक्षा करे ॥॥
टिप्पणी: −(धनम्) (न) यथा (स्पन्द्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। स्पदि किञ्चिच्चलने गतौ च-रक्। स्पन्दशीलम्। शीघ्रं प्रापणीयम् (बहुलम्) प्रभूतम् (यः) पुरुषः (अस्मै) वीराय (तीव्रान्) (सोमान्) तत्त्वरसान् (आसुनोति) निष्पादयति। संस्करोति (प्रयस्वान्) अन्नवान्-निघ० २।७। (तस्मै) पुरुषाय (शत्रून्) (सुतुकान्) सृवृभूशुषिमुषिभ्यः कक्। उ० ३।४१। तु गतिवृद्धिहिंसासु-कक्। बहुहिंसकान् (प्रातः) प्रभातकाले यथा (अह्नः) दिनस्य (नि) नितराम् (स्वष्ट्रान्) अमिचिमिशसिभ्यः क्त्रः। उ० ४।१६४। अशू व्याप्तौ-क्त्र, टाप्। सुष्ठु अष्टास्ताडन्यो येषां तान्। तीक्ष्णायुधान् (युवति) पृथक् करोति (हन्ति) गच्छति-निघ० २।१४। प्राप्नोति (वृत्रम्) धनम्-निघ० २।१० ॥