नेमा इ॑न्द्र॒ गावो॑ रिष॒न्मो आ॒सां गोप॑ रीरिषत्। मासा॑म॒मित्र॒युर्ज॑न॒ इन्द्र॒ मा स्ते॒न ई॑शत ॥
पद पाठ
न । इमा: । इन्द्र । गाव: । रिषन् । मो इति । आसाम् । गोप । रीरिषत् ॥ मा । आसाम् । अमित्रयु: । जन: । इन्द्र । मा । स्तेन: । ईशत ॥१२७.१३॥
अथर्ववेद » काण्ड:20» सूक्त:127» पर्यायः:0» मन्त्र:13
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (इमाः) यह (गावः) भूमियें (न रिषन्) न नष्ट होवें और (आसाम्) इनका (गोप) रक्षक (मो रीरिषत्) नहीं नष्ट होवे। (इन्द्र) हे इन्द्र ! [राजन्] (मा) न तो (अमित्रयुः) वैरियों को चाहनेवाला (जनः) नीच मनुष्य, और (मा) न (स्तेनः) चोर (आसाम्) इन [भूमियों] का (ईशत) राजा होवे ॥१३॥
भावार्थभाषाः - राजा डाकू चोर आदि से खेती आदि भूमियों की रक्षा करके प्रजा को पाले ॥१३॥
टिप्पणी: १३−(न) निषेधे (इमाः) दृश्यमानाः (इन्द्र) परमैश्वर्यवन् राजन् (गावः) कृष्यादिभूमयः (रिषन्) नश्यन्तु (मो) निषेधे (आसाम्) गवां भूमीनाम् (गोप) गुपू रक्षणे-अच्। आयादय आर्धधातुके वा। पा० ३।१।३१। आयलोपः। विभक्तेर्लुक्। गोपः। रक्षकः (रीरिषन्) रिष हिंसायाम्, ण्यन्ताद् माङि लुङि चङि रूपं कर्मण्यर्थे। नश्येत् (मा) निषेधे (आसाम्) (अमित्रयुः) अमित्र-क्यच्, उप्रत्ययः। शत्रून् कामयमानः (जनः) पामरलोकः (इन्द्र) (मा) (स्तेनः) चोरः (ईशत्) राजा भवेत् ॥