अति॒ निहो॒ अति॒ सृधो ऽत्यचि॑त्ती॒रति॒ द्विषः॑। विश्वा॒ ह्य॑ग्ने दुरि॒ता तर॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥
पद पाठ
अति । निह: । अति । सृध: । अति । अचित्ती: । अति । द्विष: । विश्वा । हि । अग्ने । दु:ऽइता । तर । त्वम् । अथ । अस्मभ्यम् । सहऽवीरम् । रयिम् । दा: ॥६.५॥
अथर्ववेद » काण्ड:2» सूक्त:6» पर्यायः:0» मन्त्र:5
99 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजनीति से मनुष्य प्रतापी और तेजस्वी होवे।
पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी राजन् ! [(अति) अत्यन्त (निहः) शत्रुनाशक शूर होकर। अथवा] (निहः) नीच गतिवालों को (अति=अतीत्व) लाँघकर, (सृधः) हिंसकों को (अति) लाँघकर, (अचित्तीः) पापबुद्धि प्रजाओं को (अति) लाँघकर और (द्विषः) द्वेष करनेवालों का (अति) तिरस्कार करके, (त्वम्) तू (हि) ही (विश्वा=विश्वानि) सब (दुरिता=०–तानि) संकटों को (तर) पारकर, (अथ) और (अस्मभ्यम्) हमें (सहवीरम्) वीर पुरुषों के सहित (रयिम्) धन (दाः) दे ॥५॥
भावार्थभाषाः - राजा सावधानी से प्रजा के सब क्लेशों को हरे और ऐसा प्रयत्न करे कि प्रजा के सब पुरुष उत्साही, शूरवीर और धनाढ्य हों ॥५॥ २–इस मन्त्र का पाठ यजुर्वेद २७।६। में ऐसा है। अति॒ निहो॒ अति॒स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने। विश्वा॒ ह्य॑ग्ने॒ दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ स॒ह वी॑रा र॒यिं दाः ॥१॥ (अग्ने) हे तेजस्विन् राजन् ! (अति निहः) अत्यन्त शूर होकर (स्रिधः) दुष्टों को (अति) हटाकर, (अचित्तिम्) अज्ञान को (अति) हटाकर, (अरातिम्) कंजूसपन को (अति) हटाकर (विश्वा दुरितानि) सब विघ्नों को (सहस्व) दबा दे, (अथ) और (अस्मभ्यम्) हमें (सहवीराम्) वीरों से युक्त सेना और (रयिम्) धन (दाः) दे ॥ १–(सृधः) के स्थान पर सायणभाष्य में (स्रधः) पद है ॥
टिप्पणी: ५–अति। अतिशयेन। निहः। निहन्तीहि निहः। नि+हन्–ड। शत्रुहन्ता। शूरः सन्। अग्नेर्विशेषणम्। अथवा। अति। अतीत्य। अतिक्रम्य। निहः। नि+ओहाङ् गतौ–क्विप्। आतो धातोः। पा० ६।४।१४०। इति शसि आकारलोपः। निकृष्टगतीन् दुष्टान्। सृधः। सृध स्रध वा शोषणे कुत्सितकर्मणि वा–क्विप्। छान्दसो धातुः। देहशोषकान्। कुत्सिताचारान्। अचित्तीः। अ+चित्त संचेतने–क्तिन्। अशोभनबुद्धीः। शत्रुसेनाः। अज्ञानानि। द्विषः। द्विष–क्विप्। अप्रीतिकरान्। द्वेष्टॄन्। विश्वा। विश्वानि सर्वाणि। दुरिता। दुर् दुष्टमितं गमनमनेन। दुर्+इण् गतौ–भावे क्त। पापानि। संकटानि। तर। तॄ तरणे, अभिभवे। अभिभव। सहवीरम्। तेन सहेति तुल्ययोगे। पा० ६।३।२८। इति तुल्यक्रियायोगे बहुव्रीहिः। वोपसर्जनस्य। पा० ६।३।८२। इति सहस्य सभावो विकल्पत्वान्न प्रवर्तते। वीरैः सहितम्। रयिम्। अ० १।१५।२। रीङ् गतौ–इ प्रत्ययः। धनम्–निघ० २।१०। दाः। डुदाञ् विधिलिङि छान्दसं रूपम्। त्वं दधाः ॥
