यद्वो॑अ॒ग्निरज॑हा॒देक॒मङ्गं॑ पितृलो॒कं ग॒मयं॑ जा॒तवे॑दाः। तद्व॑ ए॒तत्पुन॒राप्या॑ययामि सा॒ङ्गाः स्व॒र्गे पि॒तरो॑ मादयध्वम् ॥
पद पाठ
यत् । व: । अग्नि: । अजहात् । एकम् । अङ्गम् । पितृऽलोकम् । गमयन् । जातऽवेदा: । तत् । व: । एतत् । पुन: । आ । प्याययामि । सऽअङ्गा । स्व:ऽगे । पितर: । मादयध्वम् ॥४.६४॥
अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:64
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
पितरों के सत्कार का उपदेश।
पदार्थान्वयभाषाः - [हे पितरो !] (वः)तुम्हारे (यत्) जिस (एकम्) एक (अङ्गम्) अङ्ग को (पितृलोकम्) पितृ समाज में [मनुष्यों को] (गमयन्) ले चलते हुए, (जातवेदाः) धनों के उत्पन्न करनेवाले (अग्निः) अग्नि [शारीरिक पराक्रम] ने (अजहात्) त्याग दिया है। (वः) तुम्हारे (तत्) उस [अङ्ग] को (एतत्) अव (पुनः) निश्चय करके (आ) सब प्रकार (प्याययामि) मैंपूरा करता हूँ, (साङ्गाः) पूरे अङ्गवाले (पितरः) पालक ज्ञानी होकर तुम (स्वर्गे)सुख पहुँचानेवाले पद पर (मादयध्वम्) आनन्द पाओ ॥६४॥
भावार्थभाषाः - यदि विद्वान् पिता आदिबड़ों के अङ्ग में थकान आदि से कुछ हानि होवे, गृहस्थ सुसन्तान आदि उसका प्रतिकारकरके उन्हें प्रसन्न करें ॥६४॥
टिप्पणी: ६४−(यत्) (वः) युष्माकम् (अग्निः) शारीरिकपराक्रमः (अजहात्) ओहाक् त्यागे। त्यक्तवान् (अङ्गम्) अवयवम् (पितृलोकम्) विदुषां समाजम् (गमयन्) प्रापयन् (जातवेदाः) जातान्युत्पन्नानि वेदांसि धनानि यस्मात्सः (तत्)अङ्गम् (वः) युष्माकम् (एतत्) इदानीम् (पुनः) निश्चयेन (आ) समन्तात् (प्याययामि)वर्धयामि। पूरयामि (साङ्गाः) सम्पूर्णावयवाः (स्वर्गे) ...... ॥