या त॑ इन्द्रत॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।यये॑न्द्र त॒न्वा॒न्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒ शर्म॒ यच्छ॒तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
या । ते । इन्द्र । तनू: । अप्ऽसु । या । पृथिव्याम् । या । अन्त: । अग्नौ । या । ते । इन्द्र । पवमाने । स्व:ऽविदि । यया । इन्द्र । तन्वा । अन्तरिक्षम् । विऽआपिथ । तया । न: । इन्द्र । तन्वा । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१३॥
पण्डित क्षेमकरणदास त्रिवेदी
आयु की बढ़ती के लिये उपदेश।