वांछित मन्त्र चुनें

स यद्ध्रु॒वांदिश॒मनु॒ व्यच॑ल॒द्विष्णु॑र्भू॒त्वानु॒व्यचलद्वि॒राज॑मन्ना॒दीं कृ॒त्वा ॥

मन्त्र उच्चारण
पद पाठ

स: । यत् । ध्रुवाम् । दिशम् । अनु । विऽअचलत् । विष्णु: । भूत्वा । अनुऽव्यचलत् । विऽराजम् । अन्नऽअदीम् । कृत्वा ॥१४.९॥

अथर्ववेद » काण्ड:15» सूक्त:14» पर्यायः:0» मन्त्र:9


80 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

अतिथिके उपकार का उपदेश।

पदार्थान्वयभाषाः - (सः) वह [व्रात्यअतिथि] (यत्) जब (ध्रुवाम्) नीचेवाली (दिशम् अनु) दिशा की ओर (व्यचलत्) विचरा, वह (विष्णुः) विष्णु [कामों में व्यापक] (भूत्वा) होकर और (विराजम्) विराट् [विविध प्रकाशमान राज्यश्री] को (अन्नादीम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया ॥९॥
भावार्थभाषाः - म० १, २ के समान ॥९, १०॥
टिप्पणी: ९, १०−(ध्रुवाम्)अधोगताम् (विष्णुः) कर्मसु व्यापकः पण्डितः (विराजम्) वि+राजृ दीप्तौ ऐश्वर्येच-क्विप्। विविधप्रकाशमानां राज्यश्रियम् (अन्नादीम्) जीवनरक्षिकाम् (विराजा)विविधप्रकाशमानया राज्यश्रिया (अन्नाद्या) जीवनरक्षिकया। अन्यत् पूर्ववत् म० १, २ ॥